Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Kesarī kemadrumaśca
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 2
The Blessed Land and an Uncommon Boy
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
9
▾
Meaning
Keep
अथ
च
बालस्य
भाविभाग्यबुभुत्सया
ज्योतिःशास्त्रविचक्षणान्
विख्यातानामन्त्र्य
जन्मकालीनतत्तद्ग्रहस्थितिविचारेण
जन्मपत्रिकासम्पादनार्थं
स
पुरस्कारमाजिज्ञपत्
॥ ९ ॥
10
▾
Meaning
Keep
विभूतिमासस्य
शुक्लैकादश्यां
रेवतीनक्षत्रे
कृतजन्मनोऽस्य
बालस्य
केसरी
च
महायोगस्तथान्ये
च
सुशोभनाः ।
सन्ति
योगा
महैश्वर्यभोगजीवितसूचकाः
॥ १० ॥
11
▾
Meaning
Keep
हन्त!
केमद्रुमाख्योऽपि
दुष्टो
दारिद्र्यसूचकः ।
योगोऽत्र
दृश्यते
नूनं
कथमेतेषु
सङ्गतिः
॥ ११ ॥
12
▾
Meaning
Keep
अहो!
नैव
कलत्रादिसुखलेशोऽपि
सम्भवेत् ।
ज्ञानं
भक्तिश्च
कीर्तिः
स्याद्बहुविद्यासु
कौशलम्
॥ १२ ॥
13
▾
Meaning
Keep
एवमन्योन्यतोऽतीव
व्याहतानि
फलानि
वै ।
दृष्ट्वा
विचिन्त्य
भूयस्ते
वृद्धाः
सिष्मियिरे
भृशम्
॥ १३ ॥
14
▾
Meaning
Keep
कथमेतेषु
सार्वज्ञ्यं
पण्डितम्मन्यगृध्नुषु ।
अचिन्त्यस्येश्वरीयस्य
विलासस्य
विनिर्णये
॥ १४ ॥
15
▾
Meaning
Keep
भवितव्यस्य
सर्वस्य
को
वा
वेत्ता
धरातले ।
आत्मशक्त्यधिकं
खे
किमुत्पतन्ति
पतत्रिणः
॥ १५ ॥
16
▾
Meaning
Keep
किञ्च,
मार्गशीर्षोपचीयमानपक्षैकादशी
तु
श्रीगीताजयन्तीशुभतिथिरिति
पुण्यातिपुण्ये
तस्मिन्दिने
यदभूज्जननं
तदसूसुचदमन्दममुष्य
शिशोर्भाविविजयमाहात्म्यमाध्यात्मिकं
वेदस्वरूपस्य
भगवतो
वासुदेवस्य
दिव्यामृतवाण्या
इवैवासाधारणम् ।
दुर्लभं
हि
लोके
लोकोत्तरेषु
तादृशेषु
भद्रतिथिषु
पुरुषजन्म
॥ १६ ॥
Previous
←
Dhanyā kṣitiḥ
Next
Asādhāraṇo bālaḥ
→