Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Manane matiḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 3
Learning, Reflection and the Worship of Śambhu
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
17
▾
Meaning
Keep
न
केवलेन
ग्रन्थानुवाचनेन
तदक्षरार्थग्रहणेन
च
तुतोषामुष्य
शेमुषी
किन्तु
तद्भावार्थावबोधाय
पौनःपुन्येन
तन्मननविषयेऽप्यनलसगतिः
प्रावर्तिष्ट ।
यः
कोऽपि
वा
विषयो
ग्रन्थतो
गृहीत
आप्तपुरुषाद्वा
तावन्न
निरन्तरात्तन्मननव्यापारान्निववृते
यावन्न
स
सम्यक्
सुस्पष्टतामसन्देहविषयताञ्चापेदे ।
सुखमहमस्वाप्सं
न
किञ्चिदवेदिषम्
इति
यत्सुप्तोत्थितस्य
ज्ञानं
तु
तत्स्मृतिरूपमथवाऽनुमितिरूपमितीयं
महती
शङ्का
मनसि
समजनिष्ट
तस्मिन्काले ।
एतच्छङ्काशङ्कुसमुत्पाटनाय
बहुवारं
स्वयमेव
तन्मननकर्मणि
प्रवृत्तिः
कृता
पण्डितानां
सुहृज्जनानाञ्च
साहाय्येन ।
सुषुप्तिकालरूपपक्षाज्ञानाल्लिङ्गासम्भवाच्चास्मरणादेर्व्यभिचारित्वात्स्मरणाजनकनिर्विकल्पकाद्यभावासाधकत्वाच्च;
ज्ञानसामग्र्यभावस्य
चान्योन्याश्रयग्रस्तत्वादित्येवमादीनां
न्यायानामनुमितिपक्षप्रतिक्षेपकाणां
साकल्यतोऽर्थग्रहणनिपुणा
शास्त्रशाणकशिता
नासीद्धिषणा
तस्य
तदानीं
तथापि
सम्पिण्डितं
तदर्थं
स्वभावत
ऊहापोहसूत्थाना
सम्यगग्राहीत्सामान्यतया ।
एवं
तात्पर्येणैव
नानाग्रन्थाध्ययनव्यवसायो
व्यधायि
तेन
न
निर्वेतनकर्मप्रवृत्तिवदतात्पर्येण
॥ १७ ॥
Previous
←
Śikṣā bhāvotpādanāya jñānotpādanāya ca
Next
Śambhorupāsanā
→