Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Śambhorupāsanā
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 3
Learning, Reflection and the Worship of Śambhu
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
18
▾
Meaning
Keep
अथ
च,
प्रातर्निमज्याप्सु
शिवस्तुतिञ्च
ध्यानञ्च
तस्याऽथ
करोति
नित्यम् ।
स्वाध्यायपाठञ्च
तथान्यशास्त्रग्रन्थप्रवृत्तिञ्च
ततः
स
भुङ्क्ते
॥ १८ ॥
19
▾
Meaning
Keep
प्रागेव
दत्तं
जनकेन
पुत्रायारिष्टशान्त्यै
जपति
द्विवारम् ।
प्रातः
प्रदोषे
च
मनोनुकूलं
पञ्चाक्षरीमन्त्रमनेकवारम्
॥ १९ ॥
20
▾
Meaning
Keep
सर्वेषु
देवेषु
विशिष्य
शम्भुस्तदिष्ट
आसीज्जनुषैव
नूनम् ।
हठाद्धि
नैवेष्टतमो
नरः
स्याद्यद्वा
सुरः
कस्यचिदत्र
कश्चित्
॥ २० ॥
21
▾
Meaning
Keep
श्मशानशय्या
च
विभूतिभूषा
कैलासवासोऽथ
च
कृत्तिवासः ।
उग्रन्तपो
मन्मथदाहलीलाक्षिप्रप्रसादो
गरलाशनञ्च
॥ २१ ॥
22
▾
Meaning
Keep
एवं
विधांश्चेशगुणान्स
दध्यौ
शरीरकाध्यासनिवृत्तिरूपान् ।
विज्ञानवैतृष्ण्यशमादिकाष्ठानिष्ठान्निजप्रेष्ठतरान्वरिष्ठान्
॥ २२ ॥
23
▾
Meaning
Keep
उपास्यदेवात्मतयात्मभावस्तूपासनस्यैकफलं
प्रसिद्धम् ।
तथा
च
यादृग्भवितुं
य
इच्छेत्स
तादृशं
ध्यायति
तत्परः
सन्
॥ २३ ॥
24
▾
Meaning
Keep
त्यागिस्वरूपानुविधानतः
स्यात्त्यागी
तथा
भोगिविचिन्तनेन ।
भोगी
भवेत्
क्षुद्रतरञ्च
दिव्यस्तद्ध्यानतस्तत्क्रतुनीतिरेषा
॥ २४ ॥
25
▾
Meaning
Keep
ध्यानाश्रयो
दैवतमस्तु
मास्तु
ध्यानं
भवेत्तस्य
फलञ्च
सिद्ध्येत् ।
सत्येवमत्याग्रहतो
विवादः
किमर्थमेषां
दिविषत्पदार्थे
॥ २५ ॥
26
▾
Meaning
Keep
आकारवत्यास्ति
हि
देवतेति
नास्त्याकृतिर्मन्त्रमयीति
चेत्थम् ।
प्राचामथ
भ्रान्तिरियं
यतः
सा
द्वेधापि
नास्तीत्यधुनातनानाम्
॥ २६ ॥
27
▾
Meaning
Keep
येषां
मते
नास्त्युत
मास्तु
तेषा
येषां
मतेऽस्त्यस्त्वथ
देववृन्दम् ।
अलं
वृथा
ध्वाङ्क्षवलक्षदन्तश्रेणी
समीक्षा
व्यसनोदयेन
॥ २७ ॥
Previous
←
Manane matiḥ
Next
Adbhutasr̥ṣṭilīlālolaḥ
→