Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Adbhutasr̥ṣṭilīlālolaḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 3
Learning, Reflection and the Worship of Śambhu
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
28
▾
Meaning
Keep
अस्तु!
अपि
चान्यत्,
कवोष्णपानीयमुतान्यभोज्यं
गृह्णाति
न
प्रातरनन्यचित्तः ।
निषिद्धभक्ष्यग्रहणं
तु
दूरापास्तं
प्रकृत्या
नियतेन्द्रियः
सः
॥ २८ ॥
29
▾
Meaning
Keep
पित्रालयोपान्तवनान्तराले
क्षुद्रेऽपि
भद्रे
विजने
मनोज्ञे ।
उच्चावचैर्वृक्षलतादिगुल्मैरापूरिते
भूरिपतत्रिगीते
॥ २९ ॥
30
▾
Meaning
Keep
भ्राम्यन्
दिनान्तेषु
तदीयकान्त्यामुत्कण्ठितस्तां
पिबति
स्वदृग्भ्याम् ।
स्थित्वा
च
तत्राथ
सुदीर्घमैश्याश्चमत्कृतेर्मज्जति
चिन्तने
सः
॥ ३० ॥
31
▾
Meaning
Keep
न
वेत्ति
रात्रिन्न
बिभेत्यरण्यादबाह्यवृत्तिः
स
सुरापकल्पः ।
प्रभोः
प्रभूताद्भुतसृष्टिलीलामाहात्म्यचिन्ताविनिषक्तबुद्धिः
॥ ३१ ॥
32
▾
Meaning
Keep
अहो!
महांस्ते
महिमा
महात्मन्!
महेश!
विश्वप्रभवैकहेतोः ।
अहो!
महांस्ते
सुषमाविलासः
पश्यामि
दृश्येषु
यदीयमात्राम्
॥ ३२ ॥
33
▾
Meaning
Keep
स्फुटं
यथेन्दोस्तव
दर्शनेन
त्वदीयसौन्दर्यरसानुभूत्यै ।
मज्जन्म
भूयान्न
भवानुवृत्यै
ब्रूते
स
इत्थं
प्रविमुक्तकण्ठम्
॥ ३३ ॥
34
▾
Meaning
Keep
एवञ्च
सन्ततचिन्तारसिको
नवतरतरुणदशामापन्नोऽपि
सर्वयुवस्नेहास्पदीभूतविविधभोग्यविषयानपेक्षप्रेक्षः
केवलमेकान्ततरं
स्थानं
धार्मिकादींश्च
नवनवान्निबन्धान्नान्यत्किञ्चन
सोऽकामयत ।
किञ्च
रम्यतरभूप्रदेशास्तथा
सरित्
सरः
प्रभृतयो
गिरिकाननादयश्चातितरामढौकन्त
कामनाविषयताममुष्य
सांसिद्धिकीमकृत्रिमां
शोभामुपबुभुक्षोः ।
अथ
नक्षत्रताराग्रहमण्डलमण्डितमाकाशमण्डलं
तु
शश्वदग्रिममाह्लादसाधनमभूत्तस्यालौकिकचिन्ताप्रवर्तकञ्चेति
किमु
वक्तव्यं
विशेषतः
॥ ३४ ॥
35
▾
Meaning
Keep
किमिति
न
कुरुतेऽयं
नर्मवाणीविलासान्
विजनभुवि
नितान्तञ्चिन्तयत्येव
तूष्णीम् ।
अहह!
जपति
मन्त्रं
वृद्धवद्धस्मभूषो
हसितविषयतां
स
प्रापदेवं
वधूनाम्
॥ ३५ ॥
Previous
←
Śambhorupāsanā
Next
Surasarasvatyanugrahaḥ
→