Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Vinivr̥ttakāmāḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 4
Sarasvatī's Grace and Love of the Lord
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
36
▾
Meaning
Keep
तथाऽपि,
दिष्टाद्दुष्टाद्दुष्टचेष्टाप्रसङ्गः
सम्पन्नश्चेत्तस्य
कश्चित्कदाचित् ।
सोऽभूद्धेतुः
शिष्टचेष्टाद्रढिम्नः
पश्चात्पातो
यद्वदुत्पातभूम्नः
॥ ३६ ॥
37
▾
Meaning
Keep
शुद्धोऽप्येवं
सर्वथा
सर्वदाऽसौ
स्वीयैर्वृत्तैर्हन्त!
हा!
सुन्दरीणाम् ।
स्वान्तं
सद्योऽपाहरत्सुन्दराङ्गश्चित्रा
लीला
कुर्वतोऽङ्कं
शशाङ्के
॥ ३७ ॥
38
▾
Meaning
Keep
जामातृत्वे
बद्धुमेनं
युवानं
विद्योपेतं
द्रव्यवज्ज्येष्ठपुत्रम् ।
ईहाञ्चक्रे
कन्यकातातचक्रं
स्वार्थेनान्धीभूतदृष्टिर्हि
लोकः
॥ ३८ ॥
39
▾
Meaning
Keep
उद्वाहेऽर्थप्रचयगमने
चान्यकार्येषु
या
या
गुप्ता
वार्ता
निजगुरुजनैः
श्राविताऽश्रावि
तेन ।
तत्तत्कालेष्वहह!
सकला
व्यर्थधात्रीकथावत्
कण्ठासोः
किं
सरससफला
भाति
शृङ्गारगोष्ठी
॥ ३९ ॥
Previous
←
Svātmavr̥ttiḥ
Next
Kālena jīryati
→