Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Kālena jīryati
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 5
Grief, Devotion and Knowledge of the Self
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथ
चैवमतिव्रजत्सु
वासरेषु
श्रीसुब्रह्मण्ययूनोऽस्मच्चरितपुरुषस्यैकविंशे
वयसि
सर्वमान्यः
सर्वनेता
धार्मिको
धनिकश्च
पिता
सर्वं
सन्त्यज्याऽदृष्टमात्रसहायः
परलोकमियाय,
प्रचिक्षेप
च
निःशेषान्निजान्
सम्बन्धिजनाननाथान्
सुहृदश्चापारे
शोकपारावारे
॥ १ ॥
2
▾
Meaning
Keep
कालेन
जीर्यति
विनश्यति
जन्तुवर्गः
कालं
न
कस्यचिदपि
प्रतिपाति
कालः ।
एवं
प्रभावमवलोक्य
विरज्य
विज्ञो
यः
स्यान्न
कालमकरी
तमथात्तुमीष्टे
॥ २ ॥
3
▾
Meaning
Keep
हाहा
ममेत्यहमिति
ह्यभिमन्यमानः
सूक्ष्मार्थचिन्तनकलाविकलो
नरोऽयम् ।
स्त्रीपुत्रवित्तबलवैभवलम्पटः
सन्दुःखेन
जीवति
सुखीति
वृथा
विमुह्यन्
॥ ३ ॥
4
▾
Meaning
Keep
यः
कोऽपि
वेषभृदनीश्वर
ईश्वरो
वा
प्राज्ञो
मितम्पचमतिः
श्वपचोऽथ
विप्रः ।
मुण्डी
गृही
परसुहृत्
स्वसुहृच्च
दुर्हृत्सर्वेऽपि
कीटकृमिवद्भवदुःखभाजः
॥ ४ ॥
5
▾
Meaning
Keep
यावन्मनो
बहुनिमित्तककामनासु
तातप्यतेऽन्यतमयाऽपि
दवाग्निनेव ।
तावन्नरस्य
सुखशान्तिकथा
कथं
स्यात्तावच्च
दैवगुणवान्
कथमेष
शिष्टः
॥ ५ ॥
6
▾
Meaning
Keep
निःस्वार्थता
न
सुलभाऽपि
परार्थजीवी
निःस्वार्थकर्मनिरतोऽहमिति
प्रकामम् ।
प्रख्यापनं
तु
सुलभं
निखिलः
परार्थः
स्वार्थेऽन्ततः
खलु
समाप्तिमुपैति
यस्मात्
॥ ६ ॥
7
▾
Meaning
Keep
कृच्छ्रेण
जन्मशतसाधनपुञ्जसाध्या
निष्कामतैव
जनिमृत्युहरः
पुमर्थः ।
शाक्येन
वेदशिरसा
च
बहूपदिष्टं
यावन्न
तादृशपदं
न
मृतेर्विमोक्षः
॥ ७ ॥
8
▾
Meaning
Keep
एवञ्चाकृतबहुचिकीर्षितेऽपि
तत्पितरि
हन्त
हन्ताऽकाल
एव
कालधर्मं
गते
तदीयस्वजनसुहृद्वर्गश्च
विचूर्णितनिजधैर्यमहो
बहु
शोशुचामास,
स
तु
विधिविधानमलङ्घनीयमिति
संविदानो
निःसर्गतश्चानासङ्गवृत्तिस्तत्सम्पर्कतः
किञ्चिदिव
विकृतिमुपयातोऽपि
विवेकोपाये
न
महता
स्वयमात्मानमिवापरानपि
सर्वान्
समुद्दधारामीदृशगर्हितोपहास्यदंशातः
ततान
च
प्रशस्तया
रीत्या
यथाविधि
सर्वमपि
क्रियाकलापमन्तिमं
कुलपरम्पराप्राप्तमन्यैस्तदधिकृतैः
सहकृतः
सन् ।
अथ
चैकचत्वारिंशद्दिनानि
नियमतस्तद्देशरीतिमनतिक्रम्यानुतस्थौ
पितुःकृते
पिण्डदानादिकर्मजातमसौ
तज्ज्येष्ठसुतोऽतीव
प्रयतस्तथा
सकृद्भोजनादिव्रती
च
भूत्वा ।
अथ
समापिपच्च
तदनुष्ठानं
श्रद्धास्पदे
श्रीपेरुकपुरे
पुण्यक्षेत्रे
साक्षाद्बहुवारमुपसेविते
तथा
च
बहुपरिचिते
सम्यक्तया
॥ ८ ॥
9
▾
Meaning
Keep
स्तोत्रञ्च
विष्णुयमकाख्यमकारि
तेन
क्षिप्रं
तदा
यमकचित्रितपद्यपूर्णम् ।
उन्नम्य
चित्तमनुशोचदशान्तमीशे
सम्यङ्नियन्तुमनसा
मनसोऽभिरामम्
॥ ९ ॥
10
▾
Meaning
Keep
वर्षाम्बुवद्विततदावकृपीटयोनेस्तापत्रयस्य
शमनौषधमेकमात्रम् ।
ईशस्य
संस्तुतिरथ
स्मृतिरीशपादे
चात्मार्पणं
न
तु
तदौपयिकं
तथाऽन्यत्
॥ १० ॥
Previous
←
Vinivr̥ttakāmāḥ
Next
Preyaḥ śreyaśca
→