Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Advaitarūpā bhaktiḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 5
Grief, Devotion and Knowledge of the Self
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
13
▾
Meaning
Keep
अपि
च
साधनसाध्यतया
द्विप्रकारा
भक्तिः ।
तत्र
साधनात्मिकाया
भक्तेर्द्वैतरूपत्वेऽपि
साध्यात्मिका
तु
पराभक्तिर्न
द्वैतरूपा
किन्त्वद्वैतरूपैवेति
किं
नाम
पार्थक्यमुत्तमाधमभावो
वा
फलस्वरूपाया
ईश्वरभक्तेरद्वैतब्रह्मविद्यायाश्च
पारस्परिकम्?
हन्त!
हन्त!
तथापि
मुह्यन्ति
विवदन्ते
चोभयवादिनोऽपि
स्वपरपक्षप्रकर्षापकर्षसाधनसन्नद्धा
इति
महदिदं
विषादस्थानं
विज्ञानमनुभवप्रमाणावष्टम्भानां
तत्त्वनिष्ठानाम्
॥ १३ ॥
14
▾
Meaning
Keep
तत्तादृशप्रशस्यतरभक्तिपथपक्षपातस्तथा
चेश्वरप्रेमाङ्कुरः,
प्रथमं
महतां
सेवा
तद्दयापात्रता
ततः ।
श्रद्धाऽथ
तेषां
धर्मेषु
ततो
हरिगुणश्रुतिः ॥
इत्येतां
सुबद्धामानुपूर्वीमपोह्यैव,
संस्कारमात्रात्
स्वयं
समुत्पेदे
तस्य
सुविशदे
चेतसि ।
तथा
पूर्वाभ्यासवशादेव
बाल्यकालादारभ्य
सगुणं
साकारमीश्वरं
भजमानश्चासीत्
सः ।
तत्र
श्रवणादिषु
नवसु
भक्तिप्रकारेषु
बाह्येन्द्रियव्यापारनिरपेक्षा
स्मरणभक्तिरतिमात्रमरोचिष्ट
तस्मै
या
तु
विधान्तरेण
पञ्चधा
निरूपितेषु
प्रेमभेदेषु
शान्तप्रेमेति
गीयते;
ततश्च
तस्यामेव
विशेषतः
प्रावर्तिष्ट
नितरां
नैरन्तर्येण
तदीयं
मनः
॥ १४ ॥
15
▾
Meaning
Keep
एवं
प्रवर्तिताभ्यासविधिना
तु
तदानीं
स्वप्नकाले
साकारं
सविशेषमीश्वरमसकृदाश्चर्येण
हर्षेण
च
प्रभूतेन
स
साक्षाद्ददर्श ।
किञ्चास्मिन्
जनुषि
कदाचित्
कथञ्चिदनुपासितानामपि
देवतानां
यदा
कदाचित्स्वप्नवेलायामस्पष्टं
दर्शनं
समपद्यत
तस्य
प्राक्शरीरकृतोपासनासंस्कारतः ।
तथापि
जाग्रद्वेलायां
सुस्पष्टं
यथा
चाक्षुषः
साक्षात्कारः
स्यात्
करतलामलकवत्पुरोवर्ति
पुरुषवच्च
तथा
न
स
भगवदाकारस्य
कस्यापि
सम्यग्दृढभूमितयोपासनमनुतस्थिवान्
॥ १५ ॥
16
▾
Meaning
Keep
एतादृशीं
भक्तिपथप्राधान्यबुद्धिमविजहदेव
स
बहुमेने
ज्ञानपथमाहात्म्यमधिकतयान्वयव्यतिरेकादिचिन्तारसज्ञः ।
अतश्च
कालक्रमेणान्यमार्गेषु
सततमकृतबहुप्रयासोऽलसगतिरात्मविचारमार्ग
एव
विचचार
तीव्रतया
दिवारात्रमतिमात्रेणोत्साहवेगेन ।
अथ
च
प्राणाभ्यासादिषु
हठयोगक्रियास्वपि
केरलेषु
बहुलं
प्रचरन्तीषु
न
तेन
विशेषत
आदरः
कृतो
दिव्यगुणाधानेन
चित्तमुन्नमयितुं
न
ताः
केवलाः
पारयन्तीति
सुष्ठु
संविदानेन ।
तथापि
ध्यानोपयोगिनां
केषांञ्चिदासनानां
तदनन्तरं
केवलकुम्भकस्य
चाभ्यासे
कौतूहलेन
कृतप्रयत्न
आसीत्
कञ्चित्कालम्
॥ १६ ॥
17
▾
Meaning
Keep
आस्तामेवमेतत्
प्रकृतमनुवर्तयामः,
बुद्ध्या
विमृश्य
विदितं
भवभूषणं
यत्प्रत्यक्षतोऽधिगतमद्य
पितुः
प्रयाणात् ।
पूर्वञ्च
हन्त
जननीनिधनात्तदस्य
वैराग्यवह्निमुददीदिपदिध्मभूतम्
॥ १७ ॥
18
▾
Meaning
Keep
कार्यं
त्वयैतदथ
चैतदकार्यमेवं
यः
शासिता
स
तु
गतस्तत
आत्मतन्त्रः
सोऽभूत्तथाऽपि
निजधर्मविदन्यतन्त्रश्चोच्छृङ्खलाचरणभीरुरभीरुकोऽपि
॥ १८ ॥
Previous
←
Preyaḥ śreyaśca
Next
Vivicya jñānam
→