Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Preyaḥ śreyaśca
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 5
Grief, Devotion and Knowledge of the Self
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
11
▾
Meaning
Keep
ईश्वरभक्तिरभ्युदयनिःश्रेयसयोरुभयोरुत्तमं
सुलभञ्च
साधनमिति,
अत
एव
आर्तो
जिज्ञासुरर्थार्थी
तथा
ज्ञानी
चेति
सर्वोऽपीश्वरं
सुकृती
भक्तुं
प्रपत्तुमथ
प्रार्थयितुमर्हतीति
च
भक्तिमाहात्म्यविषये
तस्यैतस्य
महती
श्रद्धा
आसीत् ।
कर्मध्यानज्ञानयोगानपेक्ष्य
भक्तियोगस्यानुष्ठानसौलभ्यन्तु
श्रीनारदादिभिर्भक्तिदर्शनप्रवर्तकैराचार्यैर्न
केवलं
प्रत्यपादीति
किन्तु
सर्वतत्साधकसुप्रसिद्धञ्च ।
स
हि
लेशतोऽपि
नापेक्षते
द्रव्याणि
पशुहिरण्यादीन्यथ
चित्तवृत्तिनिरोधात्मकभगीरथमहायासं
वा,
महत्सुसूक्ष्मं
वा
विवेचनपाण्डित्यम् ।
किञ्च
ईश्वरानुरक्तिमन्तरेण
ते
त्रयोऽपि
कर्मादयः
शुष्का
इव
विरसा
विरूपा
विफला
इव
च
सम्पद्यन्ते ।
अनुराग
एव
हि
रसरूपः ।
तथा
च
रसरूपत्वेऽपि
विषयानुरागो
दुःखानुषङ्गित्वात्
क्षणप्रभावत्
क्षणिकत्वाच्च
जिहासितव्यः
ईश्वरांनुरागस्तु
दुःखाननुविद्धसुखस्वरूपत्वादविनाशित्वाच्च
बाढं
जिघृक्षितव्यश्च
मुमुक्षुभिः
॥ ११ ॥
12
▾
Meaning
Keep
अथ
चेश्वरशरणः
श्रद्धधानो
भक्तः
सर्वावस्थासु
सर्वदा
तद्दत्तहस्तावलम्बो
न
कदाऽपि
भ्रेषति
तत्तत्साधनमार्गेषु
मोक्षस्य
यद्वा
भोगस्य ।
प्रेमरसमदिरामदमत्तश्च
विस्मृतदेहसंविन्न
विजानाति
बाह्यमान्तरं
वा
दुःखं
किमपि
येन
खलु
सन्ततं
तातप्यते
निबद्धदेहबुद्धिर्निखिलोऽपि
जनः ।
किञ्च
प्रेयः
प्रार्थिना
यस्मात्प्रेयः
प्राप्यते
तस्मादेव
श्रेयः
प्रार्थिना
श्रेयोऽपि
प्राप्तव्यम्
नान्यस्मात्कस्मात्कस्माञ्चनेति
सुतरामीश्वरोपसत्तिः
श्रेष्ठतर
उपायस्तस्यापीति
किमु
वक्तव्यम्?
सर्वात्मना
क्रियमाणा
चेश्वरोपसत्तिर्नाम
नूनन्नार्थान्तरमीश्वरभक्तेः
॥ १२ ॥
Previous
←
Kālena jīryati
Next
Advaitarūpā bhaktiḥ
→