Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Śubhakāryamaho vihanyate
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 6
Śāstras, Dispassion and the Unrest of Marriage
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
आत्मशान्तिरेव
शाश्वतिकी
शान्तिः ।
आत्मसुखमेव
शाश्वतिकं
सुखम् ।
बाह्यविषयाननपेक्ष्य
यः
प्रत्यग्वस्तुनि
रमते
स
एव
नित्यशान्तः
स
एव
नित्यसुखी
स
एव
च
वेदान्तविपश्चितां
परिभाषया
तु
जीवन्मुक्त
इति
गीयते ।
तदेतदन्यादृशमखिलप्रेक्षावत्प्रार्थनीयं
नित्यशान्तपदं
संस्कारत
एवालक्ष्य
निजजीवितलक्ष्यतया
पौगण्डकालादारभ्य
तदभिमुखतयात्तश्रद्धमतितात्पर्येण
संयमनियमाभ्याञ्चानुसञ्चरंस्तथा
चैकैकदिनक्रमेणाधिकाधिकं
तत्सामीप्यमप्यनुभवन्नवर्तत
निवर्तितनिखिलबाह्यविषयसङ्गोऽसौ
निजदेशेऽस्मदाख्यायिकानायकः ।
अथ
चैतल्लक्ष्यस्य
ततोऽप्यतिशयितसन्निकर्षप्राप्तिमभिकामयमान
एव
निजजनपदाद्धावपुरीमाव्रजत् ।
तत्र
चाध्यात्मशास्त्रविचारणेन
सत्सङ्गमेन
भजनध्यानादिना
च
तत्कामनापूरण
एव
यथावत्प्रववृते ।
तथाऽपि
चिरन्तरनिवासेन
सुबहुसाफल्यं
यथासमीहितमाधातुं
नाशकत्तत्र
॥ १ ॥
2
▾
Meaning
Keep
शुभकार्यमहो
विहन्यते
बहुविघ्नैरिति
दैवदुर्विधिः ।
नवसुन्दरकोरकस्य
हा!
मृदुपर्णं
कृमिभिर्हि
खाद्यते
॥ २ ॥
3
▾
Meaning
Keep
स्वमनीषितमुत्तमञ्च
यन्निगिलत्यैशमनीषितं
बलात् ।
पृथुरोमपतिर्यथा
महाँझटिति
क्षुद्रझषं
सुमञ्जुलम्
॥ ३ ॥
Previous
←
Ātmajñānārjanam
Next
Anicchannapi
→