Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Anicchannapi
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 6
Śāstras, Dispassion and the Unrest of Marriage
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
4
▾
Meaning
Keep
निवासार्थं
तस्य
पृथगेकमपरतन्त्रं
सुन्दरं
समीचीनं
स्थानं
विश्राणितमासीत् ।
अभ्यवहारादिकं
तु
शिवनाथशर्मणा
सहैव
सम्पन्नमासीत्
तद्रसवत्याम् ।
अन्यच्च
यद्यदपेक्षितं
तस्य
सुखसम्पादनाय
तत्तद्वस्तु
सर्वमपि
सज्जीकृत्य
व्यवस्थापितमासीच्छर्ममहोदयेन ।
शर्मेव
तत्पत्नीपुत्रादयोऽपि
महता
प्रेम्णा
सम्मानेन
च
सर्वथा
तस्य
प्रसादनाय
चेष्टमाना
अभवन् ।
अथ
स्वामी
गुरुभावेन
दयाशङ्करकविस्तु
सुहृद्भावेन
तं
नितरामुपदिशन्
परिचरंश्च
तदीययोगक्षेमविधानबद्धपरिकरोऽवर्तत ।
एवं
सम्प्राप्तेऽपि
सर्वविधे
निवाससौकर्ये
तत्र
निवसन्
ब्रह्मविद्याभ्यासप्रवृत्तिमावर्तयितुं
नापपारयत्
स
ईश्वरेच्छया
विपरीतवृत्तया ।
त्वमिहापेक्ष्यसे
क्षिप्रमेवेत्येवं
निजजन्मभूजनन्या
समाकारितः
कर्तव्यविशेषान्तरसञ्चोदितबुद्धिरविलम्बितमेव
भावपुरीं
परित्यज्य
केरलानेव
प्रतिप्रययौ
॥ ४ ॥
5
▾
Meaning
Keep
परदेशगतं
विशृङ्खलं
प्रतियातं
वसतौ
सुमङ्गलम् ।
तमुदीक्ष्य
मृतोत्थितं
यथा
प्रमुमोचाश्रु
मुदा
स्वबान्धवः
॥ ५ ॥
6
▾
Meaning
Keep
एवं
स्वकीयकर्तव्यविशेषाननुपेक्षमाणः
स्वदेश
एवावस्थितो
वैराग्यशस्त्रसुतीक्ष्णधारया
विच्छेदितविषयासङ्गमहावृक्षोऽनिच्छन्नपि
विष्टिगृहीतवत्
सर्वानपि
कुर्वन्
यथापेक्षितं
स्वप्रेप्सितात्मयाथात्म्यप्रबोधाभ्यासविषयेऽपि
सम्यङ्नियमतः
प्रावर्तत
सत्कारेण
॥ ६ ॥
Previous
←
Śubhakāryamaho vihanyate
Next
Śāstrapāṭham
→