Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Haṃso yathā na karaṭeṣu
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 6
Śāstras, Dispassion and the Unrest of Marriage
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
19
▾
Meaning
Keep
अथापरञ्च
किञ्चित्,
नयनभ्रमरी
सदैव
तत्कमनीयास्यकुशेशयोदरे ।
मधुपानमहोत्सवेन
हा!
मदमत्ता
रमते
स्म
योषिताम्
॥ १९ ॥
20
▾
Meaning
Keep
अत
एव
मनोहराकृतिं
युवपञ्चाननमद्भुतश्रियम् ।
तमियं
ननु
वाञ्छतीति
हा!
शुशुचुर्हन्त!
नवाङ्गनाधवाः
॥ २० ॥
21
▾
Meaning
Keep
धिगिदं
गृहजीवितं
भुवि
यदि
विश्रम्भमतिः
परस्परम् ।
प्रणयोऽपि
नितान्तपेलवः
पतिपत्न्योर्यदतीव
नारकम्
॥ २१ ॥
22
▾
Meaning
Keep
शुकदेवशरीरवद्धि
तत्कमनीयाङ्गमनङ्गसोदरम् ।
यदि
मन्मथतापवर्धकं
मदिराक्षीहृदयं
व्यदारयत्
॥ २२ ॥
23
▾
Meaning
Keep
विजितेन्द्रियचेतसो
मुनेस्तदपि
ध्वस्तरसस्य
तस्य
ताः ।
अभवन्न
विकारिका
यथा
प्रियचित्राण्यथवाश्ममूर्तयः
॥ २३ ॥
24
▾
Meaning
Keep
कनकैरपि
कामिनीजनैः
स्खलतिस्तन्नतृषो
न
मानसम् ।
तदपेतवनेऽपि
रागिणो
विचलत्येव
तदीयचिन्तया
॥ २४ ॥
25
▾
Meaning
Keep
स्थिरवृत्तिमहो
विलोक्यतां
दृढवैराग्यविवेकगुम्फिताम् ।
अधिका
वयसा
च
विद्यया
महितां
तुष्टुवुरस्य
शेमुषीम्
॥ २५ ॥
26
▾
Meaning
Keep
हंसो
यथा
न
करटेषु
विभाति
तद्वत्प्राज्ञो
जडेषु
विषयैषिषु
वीतरागः ।
सोऽभूत्तथाऽपि
सुधियां
वितृषाञ्च
यद्वत्सार्वज्ञलौकिकधियामपि
मानपात्रम्
॥ २६ ॥
27
▾
Meaning
Keep
मधुमधुरिमचौरस्तस्य
सौम्यस्वभावः
सुहृदसुहृदविज्ञप्राज्ञपुंस्त्रीजनेषु ।
समगतिरजुगुप्सारागविद्वेषरोषः
परमपदनिषक्तो
भ्राजते
स्मातिशुभ्रः
॥ २७ ॥
Previous
←
Udvāhaḥ udvegāvahaḥ
Next
Sampādakapade
→