Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Sampādakapade
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 7
Editor, Speaker and Pilgrim in the South
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
अथैवमहःसु
बहुषु
समतिक्रान्तेषु
कदाचित्कक्षीरवननगरीनिवासवैभवेन
अर्थतस्तत्र
वास्तव्यानामधिगतोन्नताङ्गलशिक्षाणामिष्टमित्राणामधिकतरसाहचर्येण
तत्प्रोत्साहनेन
च
लोकसेवात्मकं
किमपि
कर्म
कर्तव्यमिति
कर्मविधित्सा
समजनिष्ट
तस्य
चेतसि ।
स
चेच्छाङ्कुरः
क्षिप्रमेव
निदेहङ्गतः
फलात्मना
कर्मप्रवृत्तिं
प्रासोष्ट ।
कैरलीमयस्यैकस्य
मासिकपत्रस्य
तन्नगरात्प्रकाशनं
कर्तुमारब्धः
सः ।
पत्रस्वामी
स
तत्सम्पादकपदेऽपि
स्वयमेवावर्तिष्ट ।
तदात्वे
च
पञ्चत्वं
प्राप्तस्य
राष्ट्रियनेतुः
श्रीगोपालकृष्णगोखले
महोदयस्य
सुस्मरणीयस्य
स्मारकतया
गोपालकृष्ण
इति
तन्नाम्ना
पुस्तिका
प्रावर्तिष्ट ।
तथापि
राजनीतिविषया
निबन्धास्तत्र
स्थानं
नावेदिषत ।
किन्तु
केवलं
साहित्यपराः
सामाजिका
धार्मिका
आध्यात्मिकाश्च
प्रबन्धास्तत्र
प्राकाश्यमक्षतमाक्षत
॥ १ ॥
2
▾
Meaning
Keep
एवञ्च
पत्रसञ्चालनार्थमधिकतया
क्षीराटवीपुरमधिवसन्नपि
सततमेकान्तप्रियोऽसौ
तत्पुराद्बहिरेव
विजनं
काननस्थानमभिकामयते
स्म
मनसा
॥ २ ॥
Previous
←
Haṃso yathā na karaṭeṣu
Next
Vairasyavāsanāprābalyam
→