Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Lekhanakartā prabhāṣakaśca
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 7
Editor, Speaker and Pilgrim in the South
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
9
▾
Meaning
Keep
एतस्मिन्नेव
समये
कैरलीमयीषु
केरलप्रतिष्ठितासु
मनोरमादिपत्रिकास्वपि
परम्परया
प्रकाशनार्थं
लेखविलेखनकर्मणि
च
प्रासङ्गिकतया
स
व्यवसायं
व्यधत्त ।
तथा
धार्मिकानाध्यात्मिकादींश्च
विषयानधिकृत्य
तत्र
तत्र
बहुजनसमितौ
कैरलीमयं
व्याख्यानमपि
तदा
तदा
सोऽकृत
सुहृत्प्रेरणावशंवदः ।
स्वरसौष्ठवसुश्रवा
मञ्जुलपदवाक्यविन्याससुप्रसन्ना
विषयविस्पष्टविमर्शनक्षमा
सरित्स्रोतोवदनविच्छिन्नगतिश्च
तस्य
प्रौढतरा
व्याख्यानशैली
श्रोतृचेतांस्यतितरामतीतृपत् ।
तथा
च
तस्य
व्याख्यानविख्यातिस्तत्र
तत्र
केरलेषु
प्रचुरं
प्रचारमगमत् ।
ततश्चानेकेभ्यः
शिक्षानिलयेभ्यो
युवजनसमाजेभ्यश्च
भाषणविषयकाण्यभ्यर्थनापत्राणि
नितरामुपलभमानः
स
तस्मिन्
कर्मण्यपि
कृताजस्रपरिश्रमोऽवर्तत
॥ ९ ॥
10
▾
Meaning
Keep
अथ
प्रशान्तैकान्तचिन्ताप्रधानस्येश्वरीयदर्शनमात्रप्रवणस्यानभ्यस्तेदानीन्तनमिथ्याप्रचारणादिविडम्बनस्य
निजविशदस्वभावस्याननुगुणमिदं
पत्रप्रवर्तनात्मकं
कर्मेति
वत्सरद्वयेन
स्वयमनुभूय
ततोऽचिरेणैव
स
मतिं
न्यवीवृतत् ।
तथा
च
तत्पत्रं
ग्राहकगणप्रश्लाघितमपि
विरतप्रकाशनमभूदकाले
॥ १० ॥
Previous
←
Vairasyavāsanāprābalyam
Next
Satyadharmavratī dhanyaḥ
→