Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Vairasyavāsanāprābalyam
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 7
Editor, Speaker and Pilgrim in the South
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
3
▾
Meaning
Keep
तथा
च,
ब्राह्मे
दिष्टे
शोभने
शम्भुचित्तः
शय्योपस्थादुत्थितः
स्नाति
गत्वा ।
नद्यां
क्रोशाद्दूरगायां
स
पश्चात्
तत्र
स्थित्वा
ध्यायति
स्तौति
चेशम्
॥ ३ ॥
4
▾
Meaning
Keep
एवं
ध्यानस्तोत्रजापादिकर्मण्यात्मानेहो
स्मारवर्जं
निमग्नः ।
तत्रैकान्ते
दीर्घमीशाभिकोऽसौ
प्रातःकालं
यापयत्यश्रुनेत्रः
॥ ४ ॥
5
▾
Meaning
Keep
ततश्चाष्टवादनानन्तरं
निवासनिकेतनं
प्रत्यागत्यान्येषु
निजनियतकृत्येषु
व्याप्रियते
स
प्रोद्यमशीलः
॥ ५ ॥
6
▾
Meaning
Keep
सच्चित्तत्त्वे
तस्य
यद्योनिरार्षो
ग्रन्थस्तस्मिंश्चैव
संसक्तचित्तः ।
जारासक्तस्त्रीवदन्यानि
कर्माण्यङ्गैर्बाह्यैरेष
सम्यग्विधत्ते
॥ ६ ॥
7
▾
Meaning
Keep
सायङ्कालेऽप्येकलः
प्रायशोऽसौ
निष्क्रम्यारात्तत्पुरीतः
प्रशान्ते ।
स्थाने
रम्ये
भ्राम्यति
श्राम्यतीव
ध्यायी
शश्वत्तत्र
विश्राम्यतीषत्
॥ ७ ॥
8
▾
Meaning
Keep
एवं
नगरनिषेवणकालेऽपि
स्वकीयामेकान्तकामुकतामीश्वरपरमताञ्च
स
न
पर्यत्याक्षीत् ।
प्रभूतानेकभोगोपकरणोपस्कृते
तत्रापि
भोगभूमिमतिवेलमतिक्रान्तः
स
ईश्वरैकदत्तचित्त
एव
दिनान्यनैषीत् ।
न
भोगलालसालेशोऽपि
भोगपरायणैर्नास्तिकविद्याविदूषितचेतोभिर्बहुसुहृद्भिः
सह
घनतरसम्बन्धेन
तत्र
तन्मनो
मलिनयितुमलमभूदित्यहो!
महदिदं
प्राबल्यं
तद्वैरस्यवासनायाः
॥ ८ ॥
Previous
←
Sampādakapade
Next
Lekhanakartā prabhāṣakaśca
→