Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · So'smaradrāmacandram
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 7
Editor, Speaker and Pilgrim in the South
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
29
▾
Meaning
Keep
तत्र
मन्दिरतो
बहिर्वर्तिनामपि
बहूनामैतिह्यप्रसिद्धानां
पुण्यस्थानानां
गन्धमादनगिरिप्रभृतीनामथ
साधारणानामपि
साधूनां
विविधवेषविधानवतां
विदूरदेशेभ्यः
समागतानां
तत्र
निवसताञ्च
शुभदर्शनेनात्मानं
कृतार्थीकृत्य
ततः
प्रस्थाय
बाष्पशकटीतः
सन्निकृष्टं
प्रातः
स्मरणीयं
सेतुबन्धमविलम्बितमेव
स
एधितकुतूहलमयाञ्चक्रे
॥ २९ ॥
30
▾
Meaning
Keep
सामुद्री
सा
लोलकल्लोलमाला
हृद्या
भाति
ब्रह्मविद्यावतोऽपि ।
सल्लावण्या
यस्य
लावण्यतस्तं
लावण्याङ्गं
सोऽस्मरद्रामचन्द्रम्
॥ ३० ॥
31
▾
Meaning
Keep
आनन्त्यात्मा
सर्वतोऽनावृतिर्यन्नुत्तः
सिन्धुर्बुद्धवत्संविधत्ते
विक्षेपान्वै
प्रोच्चलद्वीचिरूपान्तत्तादृक्षं
सोऽस्मरद्रामचन्द्रम्
॥ ३१ ॥
32
▾
Meaning
Keep
बद्ध्वा
सेतुं
सेतुभेतॄन्सपत्नान्हत्वा
सीतां
यो
निनाय
स्वराष्ट्रम् ।
मर्यादाया
दर्शकं
देशिकं
तं
तस्मिंस्तीर्थे
सोऽस्मरद्रामचन्द्रम्
॥ ३२ ॥
33
▾
Meaning
Keep
स्नात्वा
तत्रोद्वेल्लितोल्लोलगर्भे
स्थित्वा
सम्यक्सैकतेऽक्षुद्रभद्रे ।
दध्यौ
रामं
तारमुच्चार्य
चोच्चैर्ध्येयं
साक्षाद्ध्यायिभिर्ब्रह्मरूपम्
॥ ३३ ॥
34
▾
Meaning
Keep
ध्यायं
ध्यायं
चित्तमानन्दसान्द्रे
गत्वा
तत्त्वे
मज्जति
स्माद्वितीये ।
एवं
सच्चिच्चिन्तयातीतकालः
प्रोत्तस्थौ
स
स्वासनाद्धृष्टचेताः
॥ ३४ ॥
Previous
←
Naṭarājamandire
Next
Śrīraṅge
→