Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Śrīraṅge
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 7
Editor, Speaker and Pilgrim in the South
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
35
▾
Meaning
Keep
ततश्च
सेतुबन्धनाद्रामेश्वरं
प्रत्यागत्य
ततः
श्रीरङ्ग
इति
प्रख्यातां
श्रीरङ्गनाथपुरीं
समाव्रजत्
॥ ३५ ॥
36
▾
Meaning
Keep
सप्तप्राकाराढ्यमभ्रङ्कषाग्रैः
प्रेक्ष्यानेकैर्भ्राजितं
गोपुरैश्च ।
प्रासादं
तं
ज्यातले
ह्यद्वितीयञ्चित्रं
चित्तं
तस्य
चित्रीयते
स्म
॥ ३६ ॥
37
▾
Meaning
Keep
विष्णुं
तत्राभ्यन्तरे
राजमानं
स्थूलाकारं
शेषशायिस्वरूपम् ।
दृष्ट्वा
नत्वा
तत्प्रसादञ्च
भुक्त्वा
पुष्टिं
पुष्टां
सोऽन्वलब्धाथ
तुष्टिम्
॥ ३७ ॥
38
▾
Meaning
Keep
अपि
च
तत्र
कतिपयदिनविश्रामेण
श्रीरामानुजमुख्यानां
वैष्णवाचार्याणां
पदपांसुभिः
सुपवित्रितां
तां
श्रीरङ्गपुरीमथोपान्तवर्तिनीं
त्रिशिरःपुरीञ्च
परितः
समुन्मिषितचेतसा
निर्वर्ण्य
तथा
तत्रस्थिता
विशिष्टा
इतरा
अपि
देवताश्च
सम्पूज्य
ततः
सुखेन
निजनीवृतं
प्रत्यगच्छत्सोऽवस्थया
तरुणोऽपि
श्रद्धया
वृद्धः
पूर्वोद्रिक्तया
सत्त्वशुद्ध्या
साधुतया
चाथ
सम्बोधेन
॥ ३८ ॥
Previous
←
So'smaradrāmacandram
Next
Kāñcyāmaruṇācale ca
→