Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Kāñcyāmaruṇācale ca
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 7
Editor, Speaker and Pilgrim in the South
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
39
▾
Meaning
Keep
अथान्यदा
च
तथा
परावर्तनावसरे
श्रीकाञ्चीमागत्य
निजसन्निधानेनामुष्यै
मोक्षपुरीति
विख्यातिमादधानानां
श्रीकामाक्षीश्रीकण्ठवैकुण्ठप्रमुखानां
दैवतानां
दुर्लभदर्शनेनात्मानमशूशुधदसौ
निःस्पृहकर्मकारी ।
ततश्चारुणगिरिनगरीमाव्रज्य
तत्र
विपुले
वेश्मनि
भ्राजमानमरुणाचलाधीशमात्तश्रद्धमुद्बुद्धप्रेमावेशमुदूढकुतूहलञ्चालुलोकदस्तावीच्च
बहुक्षणममन्दगद्गदस्वरेण
मन्दिरं
पदेन
परिक्रममाणः
सन् ।
अथ
श्रीरमणाभिधमृषिप्रवरमरुणाद्रिमधिवसन्तं
तपोनिधिं
सन्द्रष्टुकामस्तदावसथं
प्रतस्थे
प्रातःकृत्यमखिलं
कृत्वा
नववादनवेलायां
सत्सङ्गरसपानवासनावासितः
स
एकाकी
॥ ३९ ॥
40
▾
Meaning
Keep
आरुह्यारात्क्षिप्रमद्रेर्नितम्बन्तत्रासीनं
गह्वरेऽविह्वलास्यम् ।
मात्रा
भ्रात्रा
युक्तमव्यक्तलिङ्गं
सोऽद्राक्षीत्तं
धूतमव्यक्तचारम्
॥ ४० ॥
41
▾
Meaning
Keep
अग्रे
न्यस्तं
पक्वमोचाफलानाम्पूगं
वेगेनाहृतं
मर्कटेन ।
नैव
प्रापद्वैकृतं
वै
कृतात्मा
तद्वत्सोऽपि
स्मेरवक्त्रेण
पश्यन्
॥ ४१ ॥
42
▾
Meaning
Keep
नीत्वा
निर्वाङ्मौनमुद्राग्रहेण
प्रायोऽशेषं
कालमार्षोपकण्ठे ।
शान्तिः
सत्यं
ब्रह्मशान्तिः
स
आगान्निष्ठित्यैवञ्चाद्रितोऽधोऽपराह्ने
॥ ४२ ॥
Previous
←
Śrīraṅge
Next
Nijadeśe
→