Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Dhanyā kālaṭiḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 8
Cutting the Root, Kālaṭi to Kanyākumārī
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
18
▾
Meaning
Keep
तथाहि
साक्षाच्छ्रीशङ्करभगवत्पादानामुत्पत्तिभूमित्वेन
सुप्रथितं
कालटिग्राममध्यक्षयितुमुत्कण्ठितमना
निजवसतेरेकाकी
तमभिप्रास्थितसम्यगधिगताद्भुतप्रगल्भतरतच्चरितो
नितरां
तदाबद्धश्रद्धातिशयश्चैकदासौ ।
ग्रीष्मोपक्रमसमये
तु
तदा
प्रचण्डमार्तण्डकिरणतातप्यमानेषु
लोकेषु
निजनिजौकोऽभ्यन्तरमुपाश्रयत्सु
बहिर्निष्क्रमितुं
भ्रमितुञ्च
कतिचनदिनानि
स्वकीयशुभसङ्कल्पितपूर्तये
स
खलु
क्षिप्रमुदयुङ्क्त ।
प्रथमतः
श्रीशिवपुरमथ
च
भरतक्षेत्रं
ततः
कोटिलिङ्गपुरं
निकटस्थामनन्तरं
प्राक्कालीनश्रीकेरलराजधानीं,
ततश्च
गोश्रीनगरं,
तदूर्ध्वं
गोश्रीराजधानीञ्च
गत्वा
तत्रत्येषु
सुविशालेषु
सुविश्रुतेषु
देवसद्मसु
श्रीशिवशिवाभरतमहाविष्णुप्रधानानि
दैवतानि
दैवताराध्यानि
सश्रद्धमुपसेव्याथ
तत्तत्स्थानवर्त्तीनि
विविधान्यकृत्रिमाणि
कृत्रिमाणि
च
दृश्यानि
सकौतुकमालोक्यामोदितचेतसा
ततः
स
एणाङ्कशेखरपुरीतः
श्रीशङ्करचरणावतारपवित्रितं
कालटिग्राममव्राजीत्
॥ १८ ॥
19
▾
Meaning
Keep
दृष्ट्वा
श्रीशारदाम्बां
शरदमलसुधारश्मिशुभ्रां
शरण्यां
नत्वा
चोन्निद्रभक्त्या
भजनपथजुषां
ब्रह्मविद्याविधात्रीम् ।
तद्भक्तं
तत्र
सत्यास्तनुजमपि
ततः
केवलाद्वैतविद्या-
चार्यं
श्रीशङ्करार्यं
भवितुमिह
तथा
तत्त्वनिष्ठः
स
ऐच्छत्
॥ १९ ॥
20
▾
Meaning
Keep
कर्मन्दिनां
पूजितसम्प्रदायप्रवर्तकस्यादियतेः
प्रभावम् ।
सञ्चिन्त्य
संहृष्टमनास्तदाभूदात्माभिमानेन
स
केरलीयः
॥ २० ॥
21
▾
Meaning
Keep
सन्यासाधिकृतिस्तथा
च
नितरां
न्यासेन
तत्त्वस्थितिः
स्वच्छन्दावसतिश्च
शैलशिखरप्रान्तेषु
सङ्कल्पितम् ।
यद्यत्पूरितमेव
तत्तदखिलं
पश्चात्ततो
गृह्यते
प्राप्तस्तत्र
तदेति
मस्करिगुरु
श्रीशङ्करानुग्रहः
॥ २१ ॥
22
▾
Meaning
Keep
जयतु
जयतु
जैत्रश्रीयुतः
शङ्करार्यो
जयतु
जयतु
धन्या
कालटिग्रामभूमिः ।
जयतु
जयतु
पुण्यः
सत्प्रसूः
केरदेशो
जयतु
जयतु
भद्रा
भारतीयं
धरित्री
॥ २२ ॥
23
▾
Meaning
Keep
इति
विचिन्त्य
स
जातु
मिमङ्क्षया
बहुजलां
सरितं
समुपाययौ ।
जलमगाहत
तत्र
समग्रहीज्जलचरश्चरणे
जलमीयुषः ॥
इति
वर्णितविधया
यस्यां
खलु
तटिन्यां
गम्भीरायां
ग्राहो
जग्राह
शङ्करबालकं,
तस्यां
पूर्णाभिधायां
निमज्य
तस्यास्तटे
कदाचित्तूष्णीकामवस्थाय
च
महतीमलौकिकीमानन्दधारां
स
उपलेभे ।
तथापि
तत्र
निर्जननिर्निवासनिकेतनहट्टके
समन्ततः
शुष्कशून्यकेदारमात्रपरिवेष्टिते
स्थाने
सुखेन
विश्रमितुमभ्यागताः
कथं
पारयन्तीत्यतस्ततोऽचिरादेव
स
प्रतिनिववृते ।
कस्यचिद्ब्राह्मणस्यावसथे
निजसुभद्रतासमुद्भावितस्नेहभावस्याभ्यवहरणादिकं
सर्वं
सम्पादितमासीत्तेन
कृच्छ्रेण ।
तथा
च
कालटिक्षेत्रात्सन्निकृष्टवर्ति
आलुवानामकं
नगरमगमद्यत्र
सम्यक्स्नानतः
शरीरस्वास्थ्यसंवर्धकस्वच्छाद्भुतसलिला
सरित्
सैव
पूर्णा
केरलेषु
सुप्रसिद्धा
प्रवहति ।
तत्र
श्रीनारायणगुरुस्वामिनां
दर्शनोत्कण्ठया
ये
खलु
केरलीयानेकजनविभागेष्वन्यतमस्याचार्या
नेतारश्च
लोकसङ्ग्रहकर्मणि
नितरां
बद्धदीक्षा
बहुमान्या
ब्रह्मनिष्ठाश्चासन्;
विशालमञ्जुतराम्रोपवनमध्ये
विराजमानं
तन्निवासकुटीरं
गतोऽपि
तत्र
तानलब्ध्वा
सोऽतितरां
प्रतिहताशः
समभवत् ।
अथान्यदपि
यत्करणीयमासीत्तत्र
नदीनिमज्जनदेवदर्शनादिकं
तत्सर्वं
पौनःपुन्येन
निर्वर्त्य
सम्यक्ततः
स्थानादपि
प्रतिप्रस्थानमकरोन्निजनिलयनम्प्रति
महता
चारितार्थ्येन
॥ २३ ॥
Previous
←
Bhogarāgamahāvr̥kṣamūlacchedanam
Next
Anantapuryām
→