Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Anantapuryām
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 8
Cutting the Root, Kālaṭi to Kanyākumārī
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
24
▾
Meaning
Keep
अथ
चान्यस्मिन्नपि
संवत्सरे,
सुदर्शनतरे
वसन्तसमये
श्रीपद्मनाभस्वामिदर्शनाय
समुदितसङ्कल्पस्तदीयैतादृशसङ्कल्पस्य
तु
क्षिप्रतरक्रियोत्तरत्वेन
सुविश्रुतां
पुण्यचरितां
पुरीं
मनसि
निधायानन्तशयनाख्यां
निजभवनात्स
सुभद्रे
दिने
यातुमारेभे
बाष्पशकटीतः ।
एरणाकुलनगरीतस्तु
बाष्पतरणिमधिरुह्य
गोश्रीनगरं
ततश्च
व्याघ्रपादपुरमथ
आलशैवलिनीपुरमनन्तरञ्चाब्दनगरम्प्राप्य
तत्र
वर्तमानेषु
तत्तत्सुरनिकेतनेषु
तत्तद्देवतादर्शनेनाथ
नगरसुषमाविशेषविलोकनेन
चात्मानमतिवेलमाराधयन्स
तत
ऊर्ध्वमग्निशकट्यैव
सुखतः
स्यानन्दूरपत्तनमनुपमसुषमावैभवं
प्राविशत् ।
जलसरण्यान्तु
बहून्यदृष्टचराणि
केरलप्रसिद्धानि
प्रचुराह्लादकारीणि
वेम्पनाटाष्टमुटिप्रभृतीनि
महान्ति
समुद्राक्रमणानि
सलिलस्थानानि
सोऽनुक्रममत्यक्रामत्
॥ २४ ॥
25
▾
Meaning
Keep
उच्चण्डमुच्चलदखण्डविचित्रवीचीमालाकुलं
जलनिधेः
प्रियपोतजातम् ।
दृष्ट्वा
तु
तत्र
विततं
घनसुन्दरश्रीकैरोपकाननमथोभयकूलयोश्च
॥ २५ ॥
26
▾
Meaning
Keep
अन्वर्थयत्प्रथितकेरलनामधेयञ्चित्रीयमाणमभवद्बहु
तस्य
चेतः ।
नीलच्छटाञ्च
नितरामितरैरलभ्याम्प्रौढां
प्रसारयदशेषदिगन्तराले
॥ २६ ॥
27
▾
Meaning
Keep
तत्तादृशाकृतबृहत्सुषमाम्बुधौतत्तल्लम्पटं
झटिति
मग्नमभून्न
जज्ञौ ।
नौस्थोऽपि
बाह्यविषयान्
स
च
सम्प्रविष्टो
निर्नामरूपपदवीमथ
योगिगम्याम्
॥ २७ ॥
28
▾
Meaning
Keep
एवञ्चैतस्यामलौकिकोदकपद्यायामानन्दरसमभुक्तपूर्वमुपभुञ्जानोऽनितरसुलभसौभाग्यवतीं
प्रकृतिदेवताप्रचुरतरानुग्रहवृष्टिविषयभूतां
भार्गवक्षेत्रभुवमसौ
लावण्यरसिको
भृशं
मनसा
प्रशशंसाथ
श्रीरवीन्द्रनाथठक्कुरमहाकविमहोदयानामेतत्पद्यालोकोत्तरसौन्दर्यातिशयविषयकं
प्रशंसकवचनमनुसस्मार
च
॥ २८ ॥
29
▾
Meaning
Keep
अथ
च
तत्र
स्यानन्दूरपुरे
सुपरिष्कृते
स्वसोदर्येणाङ्गलधर्मनीतिं
शिक्षमाणेन
सह
तन्निवासवेश्मनि
नागरिकनानाक्लेशानुबन्धमन्तरेण
सुखेनैव
स
वस्तुमारभत ।
प्रथमतस्तु
किञ्चिदिव
दूरगं
पद्मनाभमन्दिरमनुप्रविश्याथ
यथाविधि
पद्मनाभमुपसद्य
अनन्तशय्योपरियोगनिद्रां
कुर्वन्तमम्भोदनिभाङ्गशोभम् ।
किरीटहारादि
विभूषणं
स
श्रीपद्मनाभं
प्रणनाम
भक्त्या
॥ २९ ॥
30
▾
Meaning
Keep
सच्चिद्घनः
सर्वचराचरात्मा
विष्णुः
कथं
गर्भगृहान्तराले ।
वसेत्परिच्छिन्नतनुर्नृतुल्यो
मा
शङ्कि
केनापि
कदाचिदेवम्
॥ ३० ॥
31
▾
Meaning
Keep
पवित्रभावश्च
परेशचिन्ता
परागतीनां
धियि
चोदिता
स्यात् ।
यथा
तथा
बालककल्पनावद्व्यधायि
देवप्रतिमादिपूर्वैः
॥ ३१ ॥
32
▾
Meaning
Keep
न
बुद्धिभेदं
कृतधीर्महात्मा
तेषां
परिच्छिन्नधियां
विदध्यात् ।
क्रीडन्तु
बालाः
प्रियमश्मदेवं
खाद्यैः
सुमाद्यैः
परिपूजयन्तु
॥ ३२ ॥
33
▾
Meaning
Keep
तदनन्तरञ्चामुष्यां
बहुविश्रुतायां
महापुर्यां
दर्शनीयान्यासन्
यानि
दर्शनानि
तानि
समस्तान्यपि
सश्रद्धं
सकुतूहलञ्च
सम्यगद्राक्षीत्स
सौन्दर्यरसपायी
पर्यायेण
यथावसरम् ।
निकटस्थसमुद्रतटमासाद्य
सकृत्सायं
तत्रारुणकिरणैरतिमानमरुणिमानमुपगतमविच्छिन्नवीचीपरम्परोच्चलितं
तत्सलिलसमुच्चयमालोक्य
घनविषयरागरञ्जितमनेकशतसहस्रसङ्कल्पपरम्परोत्कम्पितं
प्राकृतमनुजमनः
सद्य
एव
सोऽस्मार्षीत्
॥ ३३ ॥
Previous
←
Dhanyā kālaṭiḥ
Next
Dhanyā kanyākumārī
→