Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Paramahaṃsapadaparijighr̥kṣā
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 8
Cutting the Root, Kālaṭi to Kanyākumārī
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
40
▾
Meaning
Keep
तत्रापि
निजदेशे
न
स
आपातरमणीयधनमानमानिनीमुख्यानेकविषयमृगतृष्णिकानुधावने
मनागपि
स्वप्नेऽपि
प्रवर्तमान
आसीत्प्रत्युत
नित्यनिरतिशयप्रत्यग्ब्रह्मतद्विषयकविशिष्टविविधशास्त्रग्रन्थानुचिन्तने
प्रवर्तमानस्तल्लीन
आसीत्तत्प्रसक्तमना
दिवानिशम् ।
तथापि
तस्य
शुकपिककपोतप्रभृतयः
खगविशेषा,
जलजजातिजपाद्याः
कुसुमविशेषा,
अथ
तरुलतावनोपवनविशेषाश्च
तथाऽन्येऽपि
प्रकृतिरमणीयाः
पदार्थविशेषाः
प्रसह्य
सद्य
एव
हृदयावर्जका
अभूवन्युवतीव
यूनाम् ।
अपि
चोपचीयमानया
परमहंसपदपरिजिघृक्षया
तद्विषयकनानाकल्पनासु
च
पदे
पदे
प्रावृतन्निरीहमपि
तस्य
हृदयम् ।
ततश्च
तच्चिन्तावेगवशंवदः
कालविलम्बममृष्यमाणस्तत्र
तत्र
मद्रपुरश्रीरामकृष्णमठेऽन्यत्र
च
पत्रतः
सोऽजगवेषन्निजतुष्टये
प्रातिस्विकीं
तुरीयाश्रमानुष्ठेयपरिपाटीं
भिक्षुः
को
नाम
भवितुं
योग्योऽथ
तेन
के
के
नियमाः
खलु
पालनीया
इति
॥ ४० ॥
41
▾
Meaning
Keep
यच्चाथ
मस्करिपदोत्थमनुत्तमं
तत्स्वर्गेऽपि
दुर्लभमसौ
सुखमन्वभुङ्क्त
।
सङ्कल्पराष्ट्रजठरे
विपुले
कदाचित्कुर्वन्कुतूहलितया
महितामटाट्याम्
॥ ४१ ॥
Previous
←
Dhanyā kanyākumārī
Next
Sa viśiṣyate
→