Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Dhanyā kanyākumārī
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 8
Cutting the Root, Kālaṭi to Kanyākumārī
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
34
▾
Meaning
Keep
अथ
हन्त
हन्ताध्यात्मशास्त्रानुभवनिष्णातानां
महापुरुषाणान्न
विशेषतस्तत्र
दर्शनमलाभि
तेन
यथा
मद्रपुरादिषु
विद्वत्केन्द्रेषु ।
किञ्च
द्रविडदेशीयनगररत्नेषु
दर्शनचर्चाविचक्षणा
अथ
विवेकवैराग्ययुताः
साधवश्च
यथा
सुलभतया
दृष्टा
न
तथा
केरलदेशीयतत्तन्नगरोत्तमेषु
तेन
तदा
समासादिता
इत्येतत्तस्य
वा
किं
केरलदेशस्य
वा
दुर्दिष्टपरिणाम
इति
न
वयञ्जानीमहे ।
तथापि
तत्र
स्वयमीश्वरचिन्ताचर्चामात्रकर्तव्यतया
तेनेश्वरपरतयैव
सानन्दमतिवाहितेषु
कतिपयदिनेषु,
ततोऽनन्तशयनाद्भारतखण्डदक्षिणावधित्वेन
हिमवत्कन्याधिष्ठितत्वेनाथानुपमप्राकृतिकदृश्यसुषमासम्पन्नत्वेन
च
सुविदितां
कन्याकुमारीं
लक्षीकृत्य
सकुशलमाचरिता
यात्रा
मोटरनामकबाष्पशकटीद्वारा ।
तत्र
सरण्यां
समुपलब्धेषु
सुप्रतिष्ठितेषु
महत्सु
द्वित्रदेवतास्थानेषु
परं
श्रद्धास्पदेषु
सम्यग्विधिना
विधाय
दर्शनादिकमनतिक्रम्य
निर्णीतयात्रापरिपाटीं
प्रतीक्षितसमय
एव
स
तद्धाम
सम्प्रापत्
॥ ३४ ॥
35
▾
Meaning
Keep
सामुद्रोल्लोलहस्ताकुलितसकलदिक्केवलैकाङ्गवर्जम्मूर्त्तं
लावण्यकूटं
प्रकृतिजमकृतन्निर्मला
निर्मलानाम् ।
प्रेष्ठाऽप्रेष्ठा
विटानां
विषयविषभुजां
शान्तिधुक्सुस्मितैषा
धन्या
कन्याकुमारी
जगति
विजयते
सम्पदस्मद्धरित्र्याः
॥ ३५ ॥
36
▾
Meaning
Keep
ब्राह्मं
लावण्यमेतद्बहुविततमिह
प्राकृतं
दृश्यते
यद्-
ब्राह्मं
ब्राह्मं
हि
रूपं
तदिदमविकृतं
प्राकृतं
यच्च
यावत्
का
कान्तिः
प्राकृती
या
स्वयमनृतजडा
पौरुषी
पौरुषीयं
सञ्चिन्त्यैवं
समन्तात्समसमनुगतं
सोऽस्मरद्ब्रह्मतत्त्वम्
॥ ३६ ॥
37
▾
Meaning
Keep
तत्र
च
निर्जने
नितान्तैकान्तमञ्जुले
तथा
पुण्यतरे
भरतभूमहत्वोपस्थापके
स्थाने
राजकीयागारे
कृतवसतिः
स
कुमारीस्वरूपेण
दर्शनदायिनीं
जगदम्बिकां
त्र्यम्बकप्राणवल्लभां
भव्यतरे
मन्दिरे
विराजमानां
यथा
विधानमभक्त ।
कुमारिकाया
आराधनमेव
तत्र
यात्रिकाणां
प्रधानतया
विधेयमासीत् ।
धन्यनामधेयेन
श्रीविवेकानन्दस्वामिना
निजपरिव्रजनकालेऽस्मिन्
कुमारिकाक्षेत्रे
यदुद्गाररूपेणोच्चारितन्निजजन्मक्षितिं
विषयीकृत्य
तदपि
तत्र
निवासावसरे
पौनः
पुन्येन
सोऽस्मरत्;
तत्स्मरणेन
च
तद्धृदयमकम्पितमनुकम्पितमुद्बुद्धदेशाभिमानञ्च
समभूत्
॥ ३७ ॥
38
▾
Meaning
Keep
अथ
सायन्तनसमय
इतस्तत
उदन्वतस्तीरे
परिभ्रमन्महोत्तुङ्गतरङ्गसन्तानसङ्घट्टिते,
तत्र
तत्र
संलग्नान्क्षुद्रशङ्खान्पुलाकमात्रपरिमाणान्पुरतः
परिदृश्य
महतीं
कौतुकदशामापेदे
किमपि
प्रयोजनमसङ्कल्पयन्नेव
तेषामथ
स
तांश्च
सञ्चेतुमारेभे
केवलकौतुकमात्रसम्प्रयुक्तः
सन् ।
तथा
सञ्चितानपि
तान्कौतुकेनैव
निजदेशमानीय
ततश्च
तैः
कमनीयमेकं
माल्यमारचि
तत्र
तेन
तत्प्रयोजनं
पश्यता ।
ताम्रकसूत्रसङ्ग्रथितशङ्खस्रग्जपकर्मणि
विनियुक्ता
महतादरेण
सा
सर्वथा
सुरक्षितासीत्तेन
पवित्रतरामूल्यनिधिरिव
परमप्रेमास्पदीभूता ।
अथ
सर्वं
सन्त्यज्य
महानिष्क्रमणावसरेऽपीयं
प्रियतरा
माला
न
तेन
पर्यत्याजि ।
यतिपदग्रहणेन
हृषीकेशादिहिमगिरिप्रान्तसंसेवनकालेऽपि
सा
सश्रद्धमधारि
नितरान्न्ययोजि
च
जपादिकर्मणि
॥ ३८ ॥
39
▾
Meaning
Keep
एवं
प्रकृतितदध्यक्षयोरुभयोः
सुकृतिसुलभेन
सुन्दरदर्शनेनातिमात्रामाह्लादितचित्तवृत्तिस्तत्र
कुमारिकायामतियाप्याल्पतरमपि
महत्तरमविस्मरणीयं
कालं
ततः
स्यानन्दूरसरण्यैव
स
प्रतिक्रमणमुपचक्रमे ।
प्रतिक्रमणे
पुनरपि
परिव्राडिव
तत्र
तत्रारम्यस्थानेषु
देवानथ
देवदेशीयांश्चोपसेव्येश्वरप्राणान्
प्राप्तकाले
निजसुहृदो
हृदयहर्षमुत्पादयन्सकुशलं
स
निजवेश्म
सम्प्राविशत्
॥ ३९ ॥
Previous
←
Anantapuryām
Next
Paramahaṃsapadaparijighr̥kṣā
→