Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Viśvaprema eva īśvaraprema
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 9
Cidvilāsa the Pilgrim Goes North
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
6
▾
Meaning
Keep
अथ
चैतादृशमपारकरुणासिन्धुं
परमेश्वरं
साकारनिराकारोभयात्मना
वर्तमानमनासङ्गेन
कर्मयोगेन
भक्तिसहकृतेनाराध्य
परमं
श्रेयः
पुरुषोऽवाप्नुयात् ।
विषयिणां
विषयेषु
यादृशी
प्रीतिरनपायिनी
तादृशी
प्रीतिरीश्वरे
भक्तिरिति
भण्यते ।
भगवद्गुणगणश्रवणनामजपस्मरणादयो
भजनक्रिया
नैरन्तर्येणानुष्ठीयमानाः
क्रमशस्तादृशीं
भगवत्प्रीतिमुत्पादयन्ति ।
तस्मात्तासु
भजनक्रियासु
यथाधिकारन्नित्यनियमतस्तात्पर्यमास्थेयं
मुमुक्षुणा
॥ ६ ॥
7
▾
Meaning
Keep
अप्रणयेन्द्रियेण
पुनः
कर्मयोगो
भक्तियोगोऽथ
ध्यानयोगो
वा
न
लेशतोऽप्यनुष्ठातुं
शक्यते ।
यथा
प्रचण्डतरो
वायुः
शुष्कपत्राणि
तथा
दुष्टो
बुभुक्षितोऽक्षवर्गोऽनायासेन
यस्य
मनो
दुर्बलं
बलादात्मवशमापादयति
तस्येन्द्रियकिङ्करस्य
तु
कथमीश्वरकैङ्कर्यम्?
तस्मात्कथञ्चिदिन्द्रियसंयमेन
मनः
शान्तमात्मतन्त्रमाधेयं
स्वकीयश्रेयोऽभिलषता
साधकेन ।
अथ
भोगो
भोग्यकामिनीकनकादिसम्पत्तिश्चाल्पीयसे
सुखाय
महीयसे
च
दुःखाय
भोगभोग्यपरिग्रहणमहो
बत!
महानर्थस्यैव
परिग्रहणं
तत्परित्यागस्तु
तस्यैव
परित्याग
इति
विचारनैरन्तर्येण
बलिष्ठतामचलोपममचलताञ्चापादितेन
चेतसेन्द्रियाणि
संरुध्यानुगुणे
योगे
पुमान्प्रवर्तेत
॥ ७ ॥
8
▾
Meaning
Keep
हन्त!
हन्त!
नैतन्मानवस्याध्यात्मिकं
जीवनं
यत्प्रातः
सायमेकार्धघण्टापर्यन्तमक्षिणी
निमील्य
बकवदवस्थायाथ
च
यद्दिवानिशमीश्वरभयवर्जमनेकाधार्मिककर्मणामाचरणम् ।
परन्तु
बहिरन्तश्च
सर्वत्रेश्वरदर्शनेन
सर्वभूतानीश्वरात्मतयावगत्य
सर्वेण
सर्वदा
यः
प्रेममयः
प्रमादरहितो
व्यवहारः
सत्यधर्ममर्यादया
अणुतोऽपि
व्यतिक्रमणमन्तरेण
तदेवोत्तममाध्यात्मिकं
जीवनम् ।
एकार्द्धघण्टाकालन्तु
महान्
क्रूरतरः
फणधरोपि
वेणुवीणादिगीतं
श्रवणमधुरमापीय
निश्चेष्टस्तत्समाहितस्तद्विलीनो
हि
वर्तत
इति
का
नामाध्यात्मिकता
तत्र ।
किञ्च
दैवगुणसम्पत्तिमन्तरा
न
कदापि
कस्यापि
दिव्यमाध्यात्मिकं
जीवनं
सेद्धुमर्हति ।
तथा
चामानित्वमदम्भित्वमथाकामित्वमक्रोधित्वञ्च
तथा
त्यागवैराग्यशमदमसत्यसन्तोषमैत्री
मुदिता
दानदयार्जवा
हिंसादयश्च
महितगुणा
एवाध्यात्मजीवनस्य
मूलभित्तिः ।
तथेश्वरश्रद्धेश्वरप्रेमाथ
चेश्वरानुभवोऽस्या
मूलभित्तेरपि
मूलशिलेति
जानीयात् ।
परञ्च,
श्रद्धेद्धेन
नित्यनिरन्तरसाधनाभ्यासेनैवैषां
गुणानामलौकिकानामुदयः
स्यान्मनसि
मर्त्यस्य ।
देशपरिवर्तनेनाथाश्रमनामपरिवर्तनेन
वा
नहि
मनः
परिवर्तते ।
चित्तदोषा
दृढमूला
विचारमथाभ्यासञ्च
विना
यत्र
कुत्रचित्
परिभ्रमतोऽपि
न
मनागपि
क्षयमुपयान्ति ।
कपेर्वैकृतं
यथा
बदरिकाश्रमेऽथवा
सेतुबन्धे
प्रव्रज्यया
प्रवासितस्यापि
न
किञ्चिदुपक्षीणमालक्ष्यते ।
अहो
तत्तु
जीवनमीश्वरीयं,
यदा
समन्तान्मधुरं,
प्रेममयमथ
समरसञ्च
संवर्तते ।
न
यत्र
शोको
न
मोहो,
न
हाहाकारो,
न
वा
हर्षः,
अक्षुद्रसमुद्रवत्सदा
यच्च
शान्तं
गम्भीरमापूर्णमाशोभते ।
अपि
चेश्वरजीवनमीश्वरप्रेम,
ब्रह्मनिष्ठा,
ब्रह्मसमाधिरथ
विश्वप्रेम,
विश्वसेवेत्यादयः
सर्व
एते
समानार्थकाः
पर्यायशब्दाः
नेश्वरो
विश्वश्चाश्वमहिषवत्
परस्परनिरपेक्षौ
स्वतन्त्रौ
पदार्थौ;
ईश्वर
एव
विश्वम्,
विश्वमेव
हि
परमेश्वरस्य
सर्वापरोक्षः
आकारः ।
अतो
विश्वप्रेमेति
यदीश्वरप्रेमैव
तत्
॥ ८ ॥
Previous
←
Kāladeśāvadhibhyāṃ nirmuktaḥ
Next
Dharmādharmavivekaḥ
→