Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Dharmādharmavivekaḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 9
Cidvilāsa the Pilgrim Goes North
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
9
▾
Meaning
Keep
अथेश्वरसविधसम्प्रयोजकं
यद्यदाचरणं
स
स
धर्मः,
तथेश्वराद्विदूरविप्रयोजकन्तु
यद्यत्स
सोऽधर्मः
यत
ईश्वरप्राप्तिरेव
नान्यत्परमं
विधेयमिह
पुङ्कलेवरस्य
खलु
सत्त्वप्रधानेनैव
मनसेश्वरतत्त्वं
प्राप्यते
तत्प्रेप्सुना ।
तथा
च
येनाचरणेन
चेतसि
वर्द्धन्ते
सात्त्विका
भावास्त्यागवैराग्यज्ञानशमदमतितिक्षादयो
दैवगुणात्मकास्तदाचरणं
शुद्धमतो
धार्मिकञ्च;
येन
च
राजसास्तामसाश्च
भावा
वर्धन्ते
कामक्रोधलोभमोहादय
आसुरगुणरूपास्तदशुद्धमतोऽधार्मिकञ्चेत्येष
एव
धर्माधर्ममर्यादाया
मानदण्डः ।
किञ्च
तथा
यद्दर्शनं
यच्छ्रवणं
यद्रसनं
यश्च
विचारस्तद्वदन्यापि
या
या
चैन्द्रियिकचेष्टा
सत्त्ववर्धिका
सा
सा
शुद्धातः
उपादेया
चैतद्वैपरीत्येन
या
या
चेष्टा
रजस्तमोवर्धिका
सा
साऽशुद्धातः
परिहार्या
चेति
च
विवेचनीयं
विवेकिभिः
सर्वधर्म
समन्वयफलतया
॥ ९ ॥
10
▾
Meaning
Keep
एवंविधानुपदेशानुपदिदेशायमस्मच्चरितपुरुषः
शास्त्रपयोनवनीतभूतान्बहून्
बहुजनमहागोष्ठीषु
समुत्थाय
पूर्वं
प्रौढप्रणम्रप्रवाचकरूपेण
पश्चात्तु
स्वीयसुहृदनुयायिजनक्षुद्रगोष्ठीषूपविश्य
श्रद्धेयाध्यात्मसाधकस्वरूपेण
च ।
तत्र
तत्रामूदृक्षाणामक्षय्यदार्शनिकराद्धान्तानां
पौनःपुन्येन
विचारणया
सम्यक्
स्वमतिदाढर्यायैव
निष्ठापराणां
पण्डितवराणां
सम्पर्कोऽभ्यकाङ्क्ष्यभीक्ष्णमनेन ।
तथा
कण्ठस्थितानां
गीतोपनिषन्मन्त्राणां
विवरणात्मकप्रवचनमपि
कदाचिद्विदधान
आसीत्स
सुहृद्बन्धुमध्ये
तदाज्ञापितः
सन्
॥ १० ॥
Previous
←
Viśvaprema eva īśvaraprema
Next
Śirasi na likhitam
→