Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Cidvilāsaḥ
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 9
Cidvilāsa the Pilgrim Goes North
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
23
▾
Meaning
Keep
एवमतिगतेषु
केषुचिद्दिवसेषु,
श्रीस्वामिशङ्कराचार्यैश्चिद्विलास
इति
यतिनामधेयेन
तं
व्यपदेष्टुमारब्ध ।
वर्तमानवृत्त्या
तादृशयतिनामव्यपदेशो
ब्रह्मचारिणो
न
समीचीनस्तथापि
भविष्यद्वृत्त्या
तु
तादृशप्रयोगो
नासाधुरासीत्
कर्मन्दिभावभावितायास्तस्यैकान्तिकतया
प्रमाणप्रसिद्धत्वात् ।
तथा
च
गौणस्वाम्यपि
चिद्विलासो
मुख्यस्वामिवदेव
ततः
परमात्यन्तिकतया
प्राकृतप्रवृत्तिपराङ्मुखो
नित्यनिरन्तरब्रह्मवृत्तिनिरतः
समवर्तत ।
स्वामिना
सह
चिद्विलासोऽपि
तत्र
तत्र
कलिकातानगर्यां
पण्डितसभासु
सन्न्यधत्त ।
ततश्च
तन्नगरवास्तव्यानां
प्रायशोऽशेषाणां
विशिष्टविदुषां
महामहोपाध्यायद्रविडलक्ष्मणशास्त्रिप्राग्रहराणां
साक्षाद्दर्शनप्रवचनपीयूषपानप्रमोदोऽन्वभावि
तेन
महता
चारितार्थ्येन
॥ २३ ॥
Previous
←
Jagadadhīśapurī
Next
Rāmakr̥ṣṇamaṭhe
→