Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Vārāṇasyām
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 9
Cidvilāsa the Pilgrim Goes North
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
31
▾
Meaning
Keep
अथ
च
चीनदेशीयैर्भगवद्दर्शनार्तमायातैर्बौद्धभिक्षुकीभिक्षुकैः
सह
तत्र
कैश्चित्किञ्चित्कालमतियाप्य
वार्ताविनिमयेन
ततस्तत्रत्ये
सुविख्याते
मस्करिमठे
द्विरात्रमुषित्वा
च
महापुरुषसङ्गत्या
तत्स्थानादपि
श्रीवाराणसीं
विश्वनाथसनाथां
पुण्यपुरीं
प्रातःस्मरणीयां
स
आययौ
॥ ३१ ॥
32
▾
Meaning
Keep
स्तुतौ
श्रुत्या
मर्त्यैरपि
निखिलविद्यैकनिलयौ
शशाङ्कोद्यत्कीर्ती
त्रिदशतटिनीभूषवपुषौ ।
समक्षं
सोऽद्राक्षीत्सकुतुकमनध्यक्षितचरा-
वथ
प्राणंसीच्च
श्रितशरणकाशीतदधिपौ
॥ ३२ ॥
33
▾
Meaning
Keep
तत्र
कस्यचित्पौरोहित्यवृत्तिमतो
विप्रस्य
वेश्मनि
स
द्वित्रान्दिवसानवात्सीत्,
श्रद्धयेद्धया
च
पतितैकशरण्ये
सर्ववरेण्ये
गङ्गाम्भसि
निमज्य
प्रमृज्य
च
प्राज्यमहस्तदम्भोभिषेचनपुरःसरञ्च
स्वयमभ्यर्च्य
विश्वपतिमथान्याश्च
विशिष्टा
देवता
महतीं
सन्तुष्टिमवापत्तथासन्तुष्टिञ्च
यथाप्रतीक्षितमलब्ध्वा
तत्र
दुर्दैवतो
वीतरागान्सत
उपरतप्रकृतीन्
ब्रह्मनिष्ठान् ।
हन्त!
हन्त!
तत्तादृशे
विद्याक्षेत्रे
श्रुतिशास्त्रनिष्णाताः
पण्डिता
बहवोऽभिवीक्षिताः
तथापि
मोक्षपुर्यां
तत्र
पण्डया
ब्रह्मविषयकबुद्ध्या
मण्डितः
पण्डित
इत्यन्वर्थसञ्ज्ञाविशिष्टाः
शान्ता
दान्ताः
समदर्शिनः
पण्डिताः
प्रापिषत
सङ्ख्यया
विरला
एवेति
महदेतद्विषादस्थानमासीत्तस्य ।
अथ
विश्वविद्यालयप्रभृतीन्
तत्रत्यानन्यानपि
दर्शनीयान्
दृष्ट्वा
प्रपूरितसङ्कल्पस्ततोऽपि
तीर्थराजं
प्रयागमभिप्रतस्थे
॥ ३३ ॥
Previous
←
Buddhagayāyām
Next
Prayāgāyām
→