Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Buddhagayāyām
Īśvaradarśanam
›
Khaṇḍa 1
›
Ullāsa 9
Cidvilāsa the Pilgrim Goes North
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
27
▾
Meaning
Keep
एवं
महते
फलाय
स्वामिभिः
सह
सप्ताहांस्तत्र
कलिकातायां
बहूनतिवाह्याथ
साधूनां
साधुतरक्षेत्राणाञ्च
निर्वर्णनव्यसनितया
स्वामिनां
प्रणत्यानुमत्या
च
ततः
समुत्थायाग्निशकट्या
सञ्चरमाणः
स
सुविश्रुतां
श्रीगयापुरीं
प्रथमतः
प्राविक्षत् ।
तत्र
च
यथावद्विधाय
तीर्थसेवनदेवदर्शनादिकमथ
विष्णुपादे
पितृपिण्डसमर्पणादिक्रियाकलापञ्च ।
ततोऽपि
बुद्धप्रबुद्धपदप्रसोत्रीमभ्यग्रवर्तिनीमग्र्यतरानुभावां
बुद्धगयामयासीत्
॥ २७ ॥
28
▾
Meaning
Keep
भूतेषु
कारुण्यमथार्द्रभावं
सत्यं
शमं
प्रेम
च
सर्वसाम्यम् ।
मूर्तीकृतं
त्यागमहिंसनं
श्रीबुद्धं
जगत्पूज्यमसावनंसीत्
॥ २८ ॥
29
▾
Meaning
Keep
तृष्णाक्षयो
मुक्तिरतस्तदर्थं
यत्नेन
भाव्यं
त्यज
बुद्धिवादान् ।
एतन्महावाक्यमनुप्रदं
श्रीबुद्धं
जगत्पूज्यमसावनंसीत्
॥ २९ ॥
30
▾
Meaning
Keep
बुद्धोऽभवत्तत्र
तपश्चरित्वा
बुद्धः
स्वयं
यस्य
विशालमूले ।
पुण्यं
पवित्रं
तमथापि
बोधिवृक्षं
जगत्पूज्यमसावनंसीत्
॥ ३० ॥
Previous
←
Rāmakr̥ṣṇamaṭhe
Next
Vārāṇasyām
→