Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Vallabharāmaśarmā
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 7
Pilgrim Roads from Jvālāmukhī to Saumyakāśī
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
30
▾
Meaning
Keep
अन्ये
सर्वेऽपि
सुहृदः
स्वस्वकार्यपरतन्त्राः
सरण्यां
तत्तत्स्थानेषु
तात्कालिकीमवस्थितिमकार्षुरित्यतः
स
हृषीकेशमवातरदग्निशकटीत
एक
लः ।
ततश्च
तदुटजे
सन्ततब्रह्मचिन्तनोद्योगबन्धुरेषु
निर्गतेषु
कतिपयदिनेषु
तत्र
कश्चन
युवा
गौरकलेवरः
सुरूपस्तद्दर्शनार्थमागच्छदेकस्मिन्
पूर्वाह्
ने ।
तदानीं
तु
तत्र
शारीरकभाष्यपाठः
प्रचलित
आसी
त् ।
ब्रह्मविद्याश्रोतृमण्डले
नवागतः
सोऽपि
सप्रणाममवस्थाय
तत्पाठमशेषं
सादरमश्रौषी
त् ।
पाठसमाप्तौ
साधूनां
विद्यार्थिनां
निःसरणतः
पश्चात्तेन
सह
स्वामी
वार्तालापमकार्षी
त् ।
तथा
च
स
सौराष्ट्रदेशीयो
ब्राह्मणोऽधीतसुरब्राह्मीको
ब्रह्मविद्यायामपि
व्यवसायवान्
विनम्रमधुरस्वभावः
सरससंलापसमर्थश्चेति
साक्षादवगतं
ते
न ।
वल्लभरामशर्मेति
शुभाभिधानो
वैद्यवरः
स
तदानीं
तत्र
निवसन्नेवमासादितप्रथमदर्शनः
स्वामिनं
पौनःपुन्येनोपगम्य
वेदान्तादिशास्त्रविषयकभाषणेन
तन्मुखेन
च
तद्विज्ञानविवर्धनेनात्मानं
सन्तुष्टमतानी
त् ।
ततः
प्रभृति
स्वामिन्याबद्धश्रद्धाप्रेमातिशयः
स
पण्डितः
समवर्तत
इति
तदा
तदावकाशेषु
हृषीकेशमाभजन्
स्वामिनः
सम्पर्करसमनुभूय
सन्तृप्तिमगमच्चेति
विशेषतः
कथनीयमस्
ति ।
सोऽपि
श्रीसौम्यकाशीशस्तोत्रमनुवाच्यहस्तलिखितमतिप्रसन्नतां
गतोऽभ्यर्हितत्वादङ्कित्वा
प्रकाशयितुकामः
तत्प्रतिकृतिमेकां
तस्मादगृह्णात्
सहर्षं
हृषीकेशतो
गमनवेलायाम्
॥ ३० ॥
Previous
←
Kumbhagatacitradr̥śyāḥ
Next
Sādhūnāṃ svāsanaṃ varam
→