Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Īśvaradarśanam · Sādhūnāṃ svāsanaṃ varam
Īśvaradarśanam
›
Khaṇḍa 2
›
Ullāsa 7
Pilgrim Roads from Jvālāmukhī to Saumyakāśī
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
31
▾
Meaning
Keep
अपि
च
तदानीं
तत्र
स्वर्गाश्रमे
विराजमाना
श्रीसुरथाकुमारी
देवीति
धन्याभिधाना
कस्यचिद्राज्यविशेषस्य
राज्ञी
जरती
सत्सङ्गरसिका
स्वामिदर्शनेच्छया
स्वकीयजनेन
स्वकीयहर्म्यतलमानिनाय
स्वामिनमेकस्मिन्
दिन
इत्यथ
तत्र
महत्या
श्रद्धया
भक्त्या
चान्यैश्च
कैश्चित्
साधुभिः
सत्रा
निजविभवप्रद्योतकेन
भोजनेन
माध्याह्निकेन
तं
समाराध्यानन्तरं
पारमेश्वरीयविविधविषयविमर्शनवार्तारसमास्वाद्य
चामन्दमनन्दच्चेत्यादि
यदिदं
वृत्तमपि
नात्र
सामग्र्येणोपेक्षणीयं
प्रतिभा
ति ।
एतदादिमदर्शनतः
परं
च
प्रतिहायनं
हृषीकेशहरद्वारनिवासावसरेषु
परमेश्वरतद्भक्तभक्ता
सा
राजवनिता
स्वामिनः
साक्षात्कारायापि
नूनमनूनप्रयत्नमकरोदथ
च
स्वामिनस्तृणोटजमागत्यापि
निर्मानं
स्वामिसन्दर्शनं
सत्सङ्गचर्चाञ्च
सुचारु
व्यदधा
त् ।
उष्णेतरमासेषु
मासद्वयं
मासमेकं
वा
राजधान्यामागत्य
वस्तव्वं
स्वामिना;
तथा
निवासेन
सत्सङ्गलाभो
महान्मम
भविष्यति,
अथवा
तत्र
यदि
नागन्तुमिच्छति,
हृषीकेशसन्निकृष्टे
नीलकण्ठे
मम
वसत्यामागत्य
विराजितव्यं
किञ्चित्कालमित्यादि
च
बहु
निवेदितमासीदसकृत्तया
मनीषिण्या
प्रत्यब्दमपरोक्षवीक्षणप्रसङ्गे
षु ।
तथापि
स्वामी
स्वभावत
एतादृशविषयेषु
निर्भरमुदासीनो
राजसविमुखश्चाथ
साधूनां
स्वासनं
वरमिति
न्यायावष्टम्भेन
च
निजजीर्णतृणावासाद्बहिरपरत्र
न
गत्वा
वस्तुमियेष
स्वतन्त्रतया
ब्रह्मपुरीनीलकण्ठादिरम्यस्थानेषु
मुहुर्भ्रमणरसिकोऽपि
स
न् ।
अथ
सततं
स्वापतेयस्वामिनः
प्रति
सर्वसाधारणतया
न्यूनाधिकभावेनैतादृशा
आशया
आविष्कृताः
स्वामिना
तेषां
सम्मेलनवेलासु
विजनेऽथ
निजसत्सङ्गिजनगोष्ठ्यां
वा
॥ ३१ ॥
Previous
←
Vallabharāmaśarmā
Next
Etatsarvaṃ daivīkam
→