Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Agastya · The Maruts
Agastya
›
Maṇḍala 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
यज्ञा-यज्ञा
वः
समना
तुतुर्वणिर्धियं-धियं
वो
देवया
उ
दधिध्वे
।
आ
वो
ऽर्वाचः
सुविताय
रोदस्योर्महे
ववृत्यामवसे
सुवृक्तिभिः
॥
2
▾
Meaning
Keep
वव्रासो
न
ये
स्वजाः
स्वतवस
इषं
स्वरभिजायन्त
धूतयः
।
सहस्रियासो
अपां
नोर्मय
आसा
गावो
वन्द्यासो
नोक्षणः
॥
3
▾
Meaning
Keep
सोमासो
न
ये
सुतास्तृप्तांशवो
हृत्सु
पीतासो
दुवसो
नासते
।
ऐषामंसेषु
रम्भिणीव
रारभे
हस्तेषु
खादिश्च
कृतिश्च
सं
दधे
॥
4
▾
Meaning
Keep
अव
स्वयुक्ता
दिव
आ
वृथा
ययुरमर्त्याः
कशया
चोदत
त्मना
।
अरेणवस्तुविजाता
अचुच्यवुर्दृळ्हानि
चिन्मरुतो
भ्राजदृष्टयः
॥
5
▾
Meaning
Keep
को
वो
ऽन्तर्मरुत
ऋष्टिविद्युतो
रेजति
त्मना
हन्वेव
जिह्वया
।
धन्वच्युत
इषां
न
यामनि
पुरुप्रैषा
अहन्यो
नैतशः
॥
6
▾
Meaning
Keep
क्व
स्विदस्य
रजसो
महस्परं
क्वावरम्मरुतो
यस्मिन्नायय
।
यच्च्यावयथ
विथुरेव
संहितं
व्यद्रिणा
पतथ
त्वेषमर्णवम्
॥
7
▾
Meaning
Keep
सातिर्न
वो
ऽमवती
स्वर्वती
त्वेषा
विपाका
मरुतः
पिपिष्वती
।
भद्रा
वो
रातिः
पृणतो
न
दक्षिणा
पृथुज्रयी
असुर्येव
जञ्जती
॥
8
▾
Meaning
Keep
प्रति
ष्टोभन्ति
सिन्धवः
पविभ्यो
यदभ्रियां
वाचमुदीरयन्ति
।
अव
स्मयन्त
विद्युतः
पृथिव्यां
यदी
घृतम्मरुतः
प्रुष्णुवन्ति
॥
9
▾
Meaning
Keep
असूत
पृश्निर्महते
रणाय
त्वेषमयासाम्मरुतामनीकम्
।
ते
सप्सरासो
ऽजनयन्ताभ्वमादित्स्वधामिषिराम्पर्यपश्यन्
॥
10
▾
Meaning
Keep
एष
वः
स्तोमो
मरुत
इयं
गीर्मान्दार्यस्य
मान्यस्य
कारोः
।
एषा
यासीष्ट
तन्वे
वयां
विद्यामेषं
वृजनं
जीरदानुम्
॥
Previous
←
Indra and the Maruts
Next
Indra
→