Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Agastya · Indra
Agastya
›
Maṇḍala 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
महश्चित्त्वमिन्द्र
यत
एतान्महश्चिदसि
त्यजसो
वरूता
।
स
नो
वेधो
मरुतां
चिकित्वान्सुम्ना
वनुष्व
तव
हि
प्रेष्ठा
॥
2
▾
Meaning
Keep
अयुज्रन्त
इन्द्र
विश्वकृष्टीर्विदानासो
निष्षिधो
मर्त्यत्रा
।
मरुताम्पृत्सुतिर्हासमाना
स्वर्मीळ्हस्य
प्रधनस्य
सातौ
॥
3
▾
Meaning
Keep
अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वम्मरुतो जुनन्ति ।
अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥
4
▾
Meaning
Keep
त्वं
तू
न
इन्द्र
तं
रयिं
दा
ओजिष्ठया
दक्षिणयेव
रातिम्
।
स्तुतश्च
यास्ते
चकनन्त
वायोः
स्तनं
न
मध्वः
पीपयन्त
वाजैः
॥
5
▾
Meaning
Keep
त्वे
राय
इन्द्र
तोशतमाः
प्रणेतारः
कस्य
चिदृतायोः
।
ते
षु
णो
मरुतो
मृळयन्तु
ये
स्मा
पुरा
गातूयन्तीव
देवाः
॥
6
▾
Meaning
Keep
प्रति
प्र
याहीन्द्र
मीळ्हुषो
नॄन्महः
पार्थिवे
सदने
यतस्व
।
अध
यदेषाम्पृथुबुध्नास
एतास्तीर्थे
नार्यः
पौंस्यानि
तस्थुः
॥
7
▾
Meaning
Keep
प्रति
घोराणामेतानामयासाम्मरुतां
शृण्व
आयतामुपब्दिः
।
ये
मर्त्यम्पृतनायन्तमूमैरृणावानं
न
पतयन्त
सर्गैः
॥
8
▾
Meaning
Keep
त्वम्मानेभ्य
इन्द्र
विश्वजन्या
रदा
मरुद्भिः
शुरुधो
गोअग्राः
।
स्तवानेभिः
स्तवसे
देव
देवैर्विद्यामेषं
वृजनं
जीरदानुम्
॥
Previous
←
The Maruts
Next
Indra and the Maruts
→