Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Agastya · Bṛhaspati
Agastya
›
Maṇḍala 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
अनर्वाणं
वृषभम्मन्द्रजिह्वम्बृहस्पतिं
वर्धया
नव्यमर्कैः
।
गाथान्यः
सुरुचो
यस्य
देवा
आशृण्वन्ति
नवमानस्य
मर्ताः
॥
2
▾
Meaning
Keep
तमृत्विया
उप
वाचः
सचन्ते
सर्गो
न
यो
देवयतामसर्जि
।
बृहस्पतिः
स
ह्यञ्जो
वरांसि
विभ्वाभवत्समृते
मातरिश्वा
॥
3
▾
Meaning
Keep
उपस्तुतिं
नमस
उद्यतिं
च
श्लोकं
यंसत्सवितेव
प्र
बाहू
।
अस्य
क्रत्वाहन्यो
यो
अस्ति
मृगो
न
भीमो
अरक्षसस्तुविष्मान्
॥
4
▾
Meaning
Keep
अस्य
श्लोको
दिवीयते
पृथिव्यामत्यो
न
यंसद्यक्षभृद्विचेताः
।
मृगाणां
न
हेतयो
यन्ति
चेमा
बृहस्पतेरहिमायाँ
अभि
द्यून्
॥
5
▾
Meaning
Keep
ये
त्वा
देवोस्रिकम्मन्यमानाः
पापा
भद्रमुपजीवन्ति
पज्राः
।
न
दूढ्ये
अनु
ददासि
वामम्बृहस्पते
चयस
इत्पियारुम्
॥
6
▾
Meaning
Keep
सुप्रैतुः
सूयवसो
न
पन्था
दुर्नियन्तुः
परिप्रीतो
न
मित्रः
।
अनर्वाणो
अभि
ये
चक्षते
नो
ऽपीवृता
अपोर्णुवन्तो
अस्थुः
॥
7
▾
Meaning
Keep
सं
यं
स्तुभो
ऽवनयो
न
यन्ति
समुद्रं
न
स्रवतो
रोधचक्राः
।
स
विद्वाँ
उभयं
चष्टे
अन्तर्बृहस्पतिस्तर
आपश्च
गृध्रः
॥
8
▾
Meaning
Keep
एवा
महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो
धायि
देवः
।
स
नः
स्तुतो
वीरवद्धातु
गोमद्विद्यामेषं
वृजनं
जीरदानुम्
॥
Previous
←
Agni
Next
A charm against poison: the waters, the grasses and the sun
→