Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Agastya · A charm against poison: the waters, the grasses and the sun
Agastya
›
Maṇḍala 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
कङ्कतो
न
कङ्कतो
ऽथो
सतीनकङ्कतः
।
द्वाविति
प्लुषी
इति
न्यदृष्टा
अलिप्सत
॥
2
▾
Meaning
Keep
अदृष्टान्हन्त्यायत्यथो
हन्ति
परायती
।
अथो
अवघ्नती
हन्त्यथो
पिनष्टि
पिंषती
॥
3
▾
Meaning
Keep
शरासः
कुशरासो
दर्भासः
सैर्या
उत
।
मौञ्जा
अदृष्टा
वैरिणाः
सर्वे
साकं
न्यलिप्सत
॥
4
▾
Meaning
Keep
नि
गावो
गोष्ठे
असदन्नि
मृगासो
अविक्षत
।
नि
केतवो
जनानां
न्यदृष्टा
अलिप्सत
॥
5
▾
Meaning
Keep
एत
उ
त्ये
प्रत्यदृश्रन्प्रदोषं
तस्करा
इव
।
अदृष्टा
विश्वदृष्टाः
प्रतिबुद्धा
अभूतन
॥
6
▾
Meaning
Keep
द्यौर्वः
पिता
पृथिवी
माता
सोमो
भ्रातादितिः
स्वसा
।
अदृष्टा
विश्वदृष्टास्तिष्ठतेलयता
सु
कम्
॥
7
▾
Meaning
Keep
ये
अंस्या
ये
अङ्ग्याः
सूचीका
ये
प्रकङ्कताः
।
अदृष्टाः
किं
चनेह
वः
सर्वे
साकं
नि
जस्यत
॥
8
▾
Meaning
Keep
उत्पुरस्तात्सूर्य
एति
विश्वदृष्टो
अदृष्टहा
।
अदृष्टान्सर्वाञ्जम्भयन्सर्वाश्च
यातुधान्यः
॥
9
▾
Meaning
Keep
उदपप्तदसौ
सूर्यः
पुरु
विश्वानि
जूर्वन्
।
आदित्यः
पर्वतेभ्यो
विश्वदृष्टो
अदृष्टहा
॥
10
▾
Meaning
Keep
सूर्ये
विषमा
सजामि
दृतिं
सुरावतो
गृहे
।
सो
चिन्नु
न
मराति
नो
वयम्मरामारे
अस्य
योजनं
हरिष्ठा
मधु
त्वा
मधुला
चकार
॥
11
▾
Meaning
Keep
इयत्तिका
शकुन्तिका
सका
जघास
ते
विषम्
।
सो
चिन्नु
न
मराति
नो
वयम्मरामारे
अस्य
योजनं
हरिष्ठा
मधु
त्वा
मधुला
चकार
॥
12
▾
Meaning
Keep
त्रिः
सप्त
विष्पुलिङ्गका
विषस्य
पुष्यमक्षन्
।
ताश्चिन्नु
न
मरन्ति
नो
वयम्मरामारे
अस्य
योजनं
हरिष्ठा
मधु
त्वा
मधुला
चकार
॥
13
▾
Meaning
Keep
नवानां
नवतीनां
विषस्य
रोपुषीणाम्
।
सर्वासामग्रभं
नामारे
अस्य
योजनं
हरिष्ठा
मधु
त्वा
मधुला
चकार
॥
14
▾
Meaning
Keep
त्रिः
सप्त
मयूर्यः
सप्त
स्वसारो
अग्रुवः
।
तास्ते
विषं
वि
जभ्रिर
उदकं
कुम्भिनीरिव
॥
15
▾
Meaning
Keep
इयत्तकः
कुषुम्भकस्तकम्भिनद्म्यश्मना
।
ततो
विषम्प्र
वावृते
पराचीरनु
संवतः
॥
16
▾
Meaning
Keep
कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः ।
वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥
Previous
←
Bṛhaspati