Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 1
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
विश्वनाथ
नमस्तुभ्यं
विश्वमाया
विलासिने
।
काशिकेश
नमस्तुभ्यं
केशवाद्यर्चितांघ्रये
॥ १ ॥
2
▾
Meaning
Keep
विश्वंभर
नमस्तुभ्यं
विश्वविध्वंसमूर्त्तये
।
विश्वरूप
नमस्तुभ्यं
विश्वसृड्दर्पहारिणे
॥ २ ॥
3
▾
Meaning
Keep
वामदेव
महादेव
देवदेव
जगत्पते
।
भव
भक्त्या
भजामि
त्वद्भवच्छेदि
पदांबुजम्
॥ ३ ॥
4
▾
Meaning
Keep
सौम्यकाशीपते
तुभ्यं
सौम्यमूर्त्ते
नमो
नमः
।
सर्वदैव
नमस्तुभ्यं
सर्वदैवतरूपिणे
॥ ४ ॥
5
▾
Meaning
Keep
गंगाधरोऽपि
भगवान्
गंगारोधसि
वर्तसे
।
सोमसूर्याग्निनेत्रोऽपि
सोमचूडश्च
दृश्यसे
॥ ५ ॥
6
▾
Meaning
Keep
काशीपृष्ठे
विहरसि
विराण्मूर्त्तिरपि
प्रभो
।
को
वेत्ति
तव
माहात्म्यं
त्वदन्यः
परमाद्भुतम्
॥ ६ ॥
7
▾
Meaning
Keep
गिरिराजसुतापुण्यपरिपाकोऽस्तु
मे
गतिः
।
सुरवृक्षवृते
यस्य
मन्दिरे
सुन्दरे
स्थितिः
॥ ७ ॥
8
▾
Meaning
Keep
त्रिशूलरूपया
शक्त्या
हेरंबाद्यैश्च
निर्जरैः
।
गोपकोटेश्वराभ्याञ्च
संवृतं
शंकरं
भजे
॥ ८ ॥
9
▾
Meaning
Keep
वारिदाभंगलेगंगा
वारिगौरं
कलेवरे
।
वारणाद्रिपतिं
वन्दे
वारणाजिनवाससम्
॥ ९ ॥
10
▾
Meaning
Keep
कालकालं
महाकालं
कालव्यालविभूषणं
।
फालनेत्रं
प्रणौमि
श्रीकाशिकापतिमीश्वरम्
॥ १० ॥
11
▾
Meaning
Keep
भूतानामीश्वरं
भस्मभूषाभूषितविग्रहम्
।
श्मशानशायिनं
वन्दे
जाटजूटकमस्तकम्
॥ ११ ॥
12
▾
Meaning
Keep
पुरत्रयनिषूदाय
परमैश्वर्यधारिणे
।
परापराय
रुद्राय
परेशाय
नमोनमः
॥ १२ ॥
13
▾
Meaning
Keep
करालं
कालिकेशं
नृकरोटीकलितस्रजम्
।
आशावासोवसानं
श्रीविश्वनाथमुपास्महे
॥ १३ ॥
14
▾
Meaning
Keep
कालकूटाशिने
तुभ्यं
शैलकूटनिवासिने
।
शूलिने
पालिने
धन्वशालिनेऽस्तु
नमो
नमः
॥ १४ ॥
15
▾
Meaning
Keep
तुषारधवलांगोऽयं
तुषारगिरिजाधवः
।
वृषाधिवाहनो
हंन्याद्वृषवन्द्योऽवृषद्विषम्
॥ १५ ॥
16
▾
Meaning
Keep
अर्द्धनारीपते
तुभ्यमध्वरध्वंसकारिणे
।
अघोराय
नमस्साक्षादपारकरुणांबुधे
॥ १६ ॥
17
▾
Meaning
Keep
प्रसीद
भगवन्
शंभो
प्रसीद
वृषभध्वज
।
कुरुष्व
कृपया
नित्यं
नृत्यमस्मन्मनोऽङ्गणे
॥ १७ ॥
18
▾
Meaning
Keep
त्र्यक्षोऽप्यसौ
सटशिराश्च
बिभ्रत्
सर्पस्रजं
क्ष्वेलभुगष्टमूर्त्तिः
।
जेजीयते
हन्त
हिमाद्रि
मध्ये
कपालभृत्
कश्चन
भिक्षुवर्यः
॥ १८ ॥
19
▾
Meaning
Keep
कैलासशैले
कलधौतधौतं
शैलेन्द्रकन्यामुपलालयन्तम्
।
आराध्यमानञ्च
सुरेन्द्रमुख्यै-
र्वाराणसीनाथमहं
प्रपद्ये
॥ १९ ॥
20
▾
Meaning
Keep
कुबेरमित्रं
कुसुमेष्वमित्रं
कारुण्यपात्रं
करिराजपुत्रम्
।
सरोजनेत्रं
स्मितपञ्चवक्त्रं
सदा
पवित्रं
शरणं
प्रपद्ये
॥ २० ॥
21
▾
Meaning
Keep
अस्तु
मे
शरणं
सौम्यकाशीनाथः
स्वयं
प्रभुः
।
यत्कृपालेशमात्रेण
मर्त्योऽमर्त्यपदं
व्रजेत्
॥ २१ ॥
22
▾
Meaning
Keep
विभो
विश्वेश
विश्वात्मन्
विभाकर
निभद्युते
।
विभातुमोहरजनीद्विभावो
मेऽपसर्पतु
॥ २२ ॥
23
▾
Meaning
Keep
व्योमादि
भूतानि
भवत्स्वरूपं
देवादि
देहाश्च
भवत्स्वरूपं
।
जीवाश्च
सर्वेऽपि
भवत्स्वरूपम्
सर्वात्मनस्तेऽस्तु
नमः
पदाभ्याम्
॥ २३ ॥
24
▾
Meaning
Keep
त्वमेव
विष्णुः
कमला
च
दुर्गे-
त्युपास्यसे
कल्पितमूर्त्तिभेदैः
।
काशीश
सर्वेश्वर
शर्वसर्व-
देवात्मनस्तेऽस्तु
नमः
पदाभ्याम्
॥ २४ ॥
25
▾
Meaning
Keep
शुद्धं
शिवं
बुद्धमबुद्धिगम्यं
ब्रह्मेति
यद्वस्तु
वदन्ति
वेदाः
।
तत्त्वं
विभो
विश्वपते
न
तत्त्वं
किञ्चित्परं
तेऽस्तु
नमः
पदाभ्याम्
॥ २५ ॥
Next
Stabaka 2
→