Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 2
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
येन
वास्यमिदं
सर्वं
सर्वसन्यसनेन
यः
।
लभ्यतेऽलुब्धशीलेन
तस्मै
श्रीशंभवे
नमः
॥ १ ॥
2
▾
Meaning
Keep
काम्यनिष्कामकर्मभ्यां
यो
देवः
संप्रपूज्यते
।
कर्मिभिः
कर्ममर्मज्ञैस्तस्मै
श्रीशंभवे
नमः
॥ २ ॥
3
▾
Meaning
Keep
यदज्ञानहतामूढा
भ्राम्यन्ते
वहुयोनिषु
।
आत्महत्यापरिग्रस्तास्तस्मै
श्रीशंभवे
नमः
॥ ३ ॥
4
▾
Meaning
Keep
मनोऽतिवेगवत्तस्माज्जवीयस्तरमिष्यते
।
यदेकं
सत्यमत्यक्षं
तस्मै
श्रीशंभवे
नमः
॥ ४ ॥
5
▾
Meaning
Keep
यस्मिन्
सति
जगत्सर्वं
सूत्रदेवेन
धार्यते
।
नित्य
चैतन्यरूपाय
तस्मै
श्रीशंभवे
नमः
॥ ५ ॥
6
▾
Meaning
Keep
यच्चलं
निश्चलं
चैव
निकटस्थं
च
दूरगम्
।
अन्तर्वहिश्च
संपूर्णं
तस्मै
श्रीशंभवे
नमः
॥ ६ ॥
7
▾
Meaning
Keep
स्वात्मायः
सर्वभूतानामाश्रयत्वेन
वीक्ष्यते
।
विद्वद्भिर्वीतधीदोषैस्तस्मै
श्रीशंभवे
नमः
॥ ७ ॥
8
▾
Meaning
Keep
यन्मयं
सति
यद्बोधे
विश्वं
पश्यन्ति
सूरयः
।
निश्शुचश्च
विराजन्ते
तस्मै
श्रीशंभवे
नमः
॥ ८ ॥
9
▾
Meaning
Keep
शुद्धं
सर्वत्र
संव्याप्तं
कायसंबन्धवर्जितम्
।
दृशिमात्र
स्वरूपं
यत्तस्मै
श्रीशंभवे
नमः
॥ ९ ॥
10
▾
Meaning
Keep
धर्माधर्माद्यसंस्पृष्टः
प्रजेशानां
च
यः
प्रभुः
।
स्वयंभूः
परिभूश्चैव
तस्मै
श्रीशंभवे
नमः
॥ १० ॥
11
▾
Meaning
Keep
उपास्त्या
कर्मणावापि
यत्तत्वं
नोपलभ्यते
।
ज्ञानगम्याय
नित्याय
तस्मै
श्रीशंभवे
नमः
॥ ११ ॥
12
▾
Meaning
Keep
ध्यायिभिर्ध्यायमानं
यत्
प्राप्यमाणश्च
यत्पदम्
।
कार्यब्रह्मस्वरूपाय
तस्मै
श्रीशंभवे
नमः
॥ १२ ॥
13
▾
Meaning
Keep
चक्षुःश्रोत्रादीन्द्रियाणि
तत्तत्कार्यकराणि
वै
।
यद्देवानुगृहीतानि
तस्मै
श्रीशंभवे
नमः
॥ १३ ॥
14
▾
Meaning
Keep
श्रोत्रादेरपि
यं
देवं
श्रोत्रादिमनुदृश्य
हि
।
महान्तो
यन्ति
निर्वाणं
तस्मै
श्रीशंभवे
नमः
॥ १४ ॥
15
▾
Meaning
Keep
यत्र
व्रजन्ति
नो
चक्षुर्वाङ्मनांसि
मनागपि
।
न
ज्ञातं
यच्चनाज्ञातं
तस्मै
श्रीशंभवे
नमः
॥ १५ ॥
16
▾
Meaning
Keep
व्यज्यते
यन्नवाचा
यद्वाचं
व्यञ्जयति
स्फुटम्
।
सच्चिद्ब्रह्मस्वरूपाय
तस्मै
श्रीशंभवे
नमः
॥ १६ ॥
17
▾
Meaning
Keep
मनुते
न
मनोयत्तु
मनुते
येन
मानसम्
।
सच्चिद्ब्रह्मस्वरूपाय
तस्मै
श्रीशंभवे
नमः
॥ १७ ॥
18
▾
Meaning
Keep
श्रोत्रेण
श्रूयते
यन्न
श्रोत्रं
येन
शृणोति
वै
।
सच्चिद्ब्रह्मस्वरूपाय
तस्मै
श्रीशंभवे
नमः
॥ १८ ॥
19
▾
Meaning
Keep
चक्षुषा
दृश्यते
यन्न
येन
चक्षुःप्रपश्यति
।
सच्चिद्ब्रह्मस्वरूपाय
तस्मै
श्रीशंभवे
नमः
॥ १९ ॥
20
▾
Meaning
Keep
प्राणेन
चेष्टते
यन्न
येन
प्राणः
प्रचेष्टते
।
सच्चिद्ब्रह्मस्वरूपाय
तस्मै
श्रीशंभवे
नमः
॥ २० ॥
21
▾
Meaning
Keep
द्रष्टा
न
दृश्यते
यद्वै
दृश्यते
चाप्रपश्यता
।
शुद्धचिन्मात्ररूपाय
तस्मै
श्रीशंभवे
नमः
॥ २१ ॥
22
▾
Meaning
Keep
यस्सर्वबुद्धिवृत्तीनां
साक्षित्वेन
प्रकाशते
।
शुद्धचिन्मात्ररूपाय
तस्मै
श्रीशंभवे
नमः
॥ २२ ॥
23
▾
Meaning
Keep
नियम्यदैत्यान्
निजसेतुभेतॄन्
सुरप्रियो
यो
हि
जगत्प्रशास्ति
।
बुद्ध्वायमापुश्च
महेन्द्रमुख्या
महत्पदं
तं
भज
विश्वनाथम्
॥ २३ ॥
24
▾
Meaning
Keep
विद्युत्प्रकाशायित
चित्प्रकाश-
श्चक्षुर्निमेषायित
लोकसर्गः
।
इन्द्रादिगर्वापहरश्च
विश्व-
मूर्तिश्च
यस्तं
भज
विश्वनाथम्
॥ २४ ॥
25
▾
Meaning
Keep
तपश्च
शान्तिस्सकलाश्च
विद्या-
स्सत्यश्च
यस्य
प्रतिपत्तिहेतुः
।
सत्यं
सकृद्भासुरमात्मविद्या
मूर्त्तिर्यतस्तं
भज
विश्वनाथम्
॥ २५ ॥
Previous
←
Stabaka 1
Next
Stabaka 3
→