Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 3
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
प्रतिष्ठा
जगतः
साक्षादग्निरूपेण
यः
प्रभुः
।
यतश्च
कर्मणां
सिद्धिर्विश्वनाथस्स
मे
गतिः
॥ १ ॥
2
▾
Meaning
Keep
अस्ति
नास्तीति
यद्देवे
विचिकित्सन्त्यपण्डिताः
नित्यसिद्धस्तु
विदुषां
विश्वनाथस्स
मे
गतिः
॥ २ ॥
3
▾
Meaning
Keep
देवैरपि
महाप्रज्ञैर्यस्मिन्
संशयितं
पुरा
।
दुर्विज्ञेयस्तु
सूक्ष्मत्वाद्विश्वनाथस्स
मे
गतिः
॥ ३ ॥
4
▾
Meaning
Keep
पुत्रपौत्रसमूहेन
प्राज्यराज्यश्रियापि
वा
।
प्राप्तुं
न
शक्यते
यः
श्रीविश्वनाथस्स
मे
गतिः
॥ ४ ॥
5
▾
Meaning
Keep
योगक्षेमनिषक्तानां
प्रेयः
पथविचारिणाम्
।
क्रोशकोटिविदूरः
श्रीविश्वनाथस्स
मे
गतिः
॥ ५ ॥
6
▾
Meaning
Keep
त्यक्त्वा
कामान्
सुष्ठु
धीरैः
श्रेयः
प्रार्थितया
हृदि
।
पूज्यते
भाव्यते
यः
श्रीविश्वनाथस्स
मे
गतिः
॥ ६ ॥
7
▾
Meaning
Keep
शृण्वन्ति
बहवो
यन्न
श्रुत्वापि
न
विदन्ति
च
।
वक्तापि
दुर्लभो
यस्य
विश्वनाथस्स
मे
गतिः
॥ ७ ॥
8
▾
Meaning
Keep
तर्कागम्या
हि
यद्बुद्धिर्देशिकोक्त्यैव
गम्यते
।
बहुधा
चिन्त्यमानः
श्रीविश्वनाथस्स
मे
गतिः
॥ ८ ॥
9
▾
Meaning
Keep
आब्रह्मभुवनाद्यो
हि
विरक्तस्साधनान्वितः
।
तेनैव
दृश्यते
यः
श्रीविश्वनाथस्स
मे
गतिः
॥ ९ ॥
10
▾
Meaning
Keep
अध्यात्मयोगयुक्तेन
चेतसा
योऽनुचिन्त्यते
।
गुहाहितनिगूढः
श्रीविश्वनाथस्स
मे
गतिः
॥ १० ॥
11
▾
Meaning
Keep
श्रुत्या
मत्या
च
यं
लब्ध्वा
मोदते
मोदवारिधौ
।
मोदनीयशरीरः
श्रीविश्वनाथस्स
मे
गतिः
॥ ११ ॥
12
▾
Meaning
Keep
पुण्यपापात्पृथग्भूतः
कार्यकारणतश्च
यः
।
कालत्रयाच्च
शश्वच्छ्री
विश्वनाथस्स
मे
गतिः
॥ १२ ॥
13
▾
Meaning
Keep
यत्पदं
गीयते
वेदैः
यत्पदं
ब्रह्मचर्यया
।
दिदृक्षन्ते
महान्तः
श्रीविश्वनाथस्स
मे
गतिः
॥ १३ ॥
14
▾
Meaning
Keep
प्रणवैकप्रकाश्यो
यस्तत्प्रतीकश्च
यः
प्रभुः
।
परापरब्रह्मरूपो
विश्वनाथस्स
मे
गतिः
॥ १४ ॥
15
▾
Meaning
Keep
शरीरे
हन्यमानेऽपि
न
च
हन्येत
योऽजनिः
।
शाश्वतश्शाश्वदाभः
श्रीविश्वनाथस्स
मे
गतिः
॥ १५ ॥
16
▾
Meaning
Keep
कर्तृता
कर्मता
चैव
यस्मिन्नध्यस्यते
खलैः
।
वस्तुतोऽद्वैत
मूर्त्तिः
श्रीविश्वनाथस्स
मे
गतिः
॥ १६ ॥
17
▾
Meaning
Keep
अणुभ्योऽणुतरो
यश्च
महद्भ्योऽपि
महत्तरः
।
शोकराशिविमुक्तः
श्रीविश्वनाथस्स
मे
गतिः
॥ १७ ॥
18
▾
Meaning
Keep
आस्तेयातीव
यः
शेते
विषीदति
च
हृष्यति
।
विरुद्धधर्मा
विश्वात्मा
विश्वनाथस्स
मे
गतिः
॥ १८ ॥
19
▾
Meaning
Keep
निर्वपुर्वपुरध्यक्षो
नित्यनिर्वृतविग्रहः
।
व्योमवद्व्यापको
यः
श्रीविश्वनाथस्समे
गतिः
॥ १९ ॥
20
▾
Meaning
Keep
वेदवेदांग
पाठेन
प्रज्ञया
प्राभवेण
वा
।
योऽयमात्मा
न
लभ्यः
श्रीविश्वनाथस्स
मे
गतिः
॥ २० ॥
21
▾
Meaning
Keep
प्रेम्णा
संप्रार्थ्य
संप्रार्थ्य
येन
संधीयते
भृशम्
।
तेनैव
लभ्यते
यः
श्रीविश्वनाथस्स
मे
गतिः
॥ २१ ॥
22
▾
Meaning
Keep
अशनं
यस्य
देवस्य
ब्रह्मक्षत्रादिकं
जगत्
।
उपदंशस्तु
मृत्युः
श्रीविश्वनाथस्स
मे
गतिः
॥ २२ ॥
23
▾
Meaning
Keep
देहे
रथे
बुद्धि
नियन्तृके
यो
रथित्वमासाद्य
चरत्यजस्रम्
।
भोक्ताऽपि
सोऽदभ्रविचित्रलील-
स्त्वमेव
विश्वेश
निरञ्जनोऽपि
॥ २३ ॥
24
▾
Meaning
Keep
क्षतुस्संदश्वा
इव
यस्य
वश्या-
न्यक्षाणि
तत्प्राप्यमरूपरूपम्
।
वन्दे
तमव्यक्तपरं
पुराण-
मध्वावधिं
विष्णुमुमेशमारात्
॥ २४ ॥
25
▾
Meaning
Keep
क्षुरस्यधारावदतीव
दुर्गं
यन्मार्गमाहुः
कवयो
विनिद्राः
।
अशब्दमस्पर्शमनध्रुवं
तं
भक्त्या
भजे
भव्यनिधिं
मृडेशम्
॥ २५ ॥
Previous
←
Stabaka 2
Next
Stabaka 4
→