Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 5
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
श्रद्धया
ब्रह्मचर्येण
गुरुशुश्रूषणेन
च
।
ब्रह्मयद्बुध्यते
धीरैस्तमीडे
मृडमीश्वरम्
॥ १ ॥
2
▾
Meaning
Keep
प्रजापतिशरीरस्सन्
प्रजाः
कामयते
प्रभुः
।
तपश्च
तप्यते
दिव्यं
तमीडे
मृडमीश्वरम्
॥ २ ॥
3
▾
Meaning
Keep
अग्नीषोमौ
सृजत्यादौ
यः
प्रजाकरणेच्छया
।
अन्नन्नभूतौ
भूतेशं
तमीडे
मृडमीश्वरम्
॥ ३ ॥
4
▾
Meaning
Keep
सूर्यात्मना
सर्वे
लोकचक्षुस्तपति
रश्मिवान्
।
प्राणाश्रयश्च
यो
देवस्तमीडे
मृडमीश्वरम्
॥ ४ ॥
5
▾
Meaning
Keep
संवत्सरं
षट्चरणं
द्वादशाकृति
संयुतं
।
कालमूर्त्तिं
विधत्ते
यस्तमीडे
मृडमीश्वरम्
॥ ५ ॥
6
▾
Meaning
Keep
मासो
दिनं
ततश्चान्नमन्नाद्वीर्यं
ततः
प्रजाः
।
यत
इत्थं
प्रजोत्पत्तिस्तमीडे
मृडमीश्वरम्
॥ ६ ॥
7
▾
Meaning
Keep
प्राणात्मना
येन
सम्यग्वाणमेतद्विधार्यते
।
पञ्चवृत्ति
विभक्तन
तमीडे
मृडमीश्वरम्
॥ ७ ॥
8
▾
Meaning
Keep
वरिष्ठप्राणदेवं
यं
प्राणास्सर्वेऽनुयान्ति
वै
।
स्वराजं
मक्षिकायद्धत्तमीडे
मृडमीश्वरम्
॥ ८ ॥
9
▾
Meaning
Keep
अग्निरर्कश्च
पर्जन्यो
मघवाननिलोऽपि
यः
।
प्राणात्मना
जगत्सर्वं
तमीडे
मृडमीश्वरम्
॥ ९ ॥
10
▾
Meaning
Keep
यस्मादुत्पद्यते
प्राणश्छायावदनृताकृतिः
।
परस्मादक्षरात्र्यक्षं
तमीडे
मृडमीश्वरम्
॥ १० ॥
11
▾
Meaning
Keep
नियुङ्क्ते
प्राणरूपस्सन्नपानादीन्
पृथक्
पृथक्
।
सम्राडधिकृतान्
यद्वत्तमीडे
मृडमीश्वरम्
॥ ११ ॥
12
▾
Meaning
Keep
एकोत्तरशतं
नाड्यस्सशाखा
निस्सृताहृदः
।
व्यानाख्योऽटतियस्तत्र
तमीडे
मृडमीश्वरम्
॥ १२ ॥
13
▾
Meaning
Keep
इन्द्रियोपरमे
भानु
रश्मिवद्धृदि
दृश्यते
।
येन
स्वप्नजमाहात्म्यं
तमीडे
मृडमीश्वरम्
॥ १३ ॥
14
▾
Meaning
Keep
यदानिरुध्यते
चित्तं
तैजसा
सुप्तिमास्थितः
।
योऽश्नुते
सुखमक्षय्यं
तमीडे
मृडमीश्वरम्
॥ १४ ॥
15
▾
Meaning
Keep
विज्ञानात्मा
सहप्राणैर्देवैर्भूतैश्च
संविशेत्
।
शान्ते
स्वात्मनि
यत्तुर्ये
तमीडे
मृडमीश्वरम्
॥ १५ ॥
16
▾
Meaning
Keep
ओंकारायतनेनैतत्
परञ्चापरमेव
च
।
ब्रह्मयद्ध्यायते
भव्यैस्तमीडे
मृडमीश्वरम्
॥ १६ ॥
17
▾
Meaning
Keep
ओंकारेण
त्रिमात्रेण
ध्यायी
निष्पाप
एष्यति
।
ब्रह्मलोकेन
यद्ब्रह्म
तमीडे
मृडमीश्वरम्
॥ १७ ॥
18
▾
Meaning
Keep
हृच्छयो
निष्कलः
स्वात्मा
कलावानिव
लक्ष्यते
।
अविद्याऽवद्यबुद्धेर्यस्तमीडे
मृडमीश्वरम्
॥ १८ ॥
19
▾
Meaning
Keep
प्रभवन्ति
कला
यस्माद्यस्मिन्नेवापि
यन्ति
च
।
निर्विशेषे
परे
तत्वे
तमीडे
मृडमीश्वरम्
॥ १९ ॥
20
▾
Meaning
Keep
यच्चिति
व्यतिरेकेण
कलाः
कालत्रयेऽपि
च
।
न
तिष्ठन्ति
ततो
मिथ्या
तमीडे
मृडमीश्वरम्
॥ २० ॥
21
▾
Meaning
Keep
विज्ञानं
क्षणिकं
प्राहुश्शून्यमित्यपरे
जनाः
।
कलाधारं
यमात्मानं
तमीडे
मृडमीश्वरम्
॥ २१ ॥
22
▾
Meaning
Keep
अनित्यो
गुण
इत्याहुर्भूत
धर्मस्तथापरे
।
चैतन्यं
यत्कलाधारं
तमीडे
मृडमीश्वरम्
॥ २२ ॥
23
▾
Meaning
Keep
प्राणं
तथास्तिक्यमतिं
खवायू
ज्योतिर्जलं
भूमिमथेन्द्रियञ्च
।
मनश्च
तेनेऽतनुहृद्गृहेश-
स्स
विश्वनाथो
भियमुच्छिनत्तु
॥ २३ ॥
24
▾
Meaning
Keep
अन्नं
बलञ्चैव
तपश्च
मन्त्राः
कर्माथ
लोकाश्च
ततोऽभिधानम्
।
इत्थं
कलाष्षोडश
यस्ससर्ज
स
विश्वनाथो
भियमुच्छिनत्तु
॥ २४ ॥
25
▾
Meaning
Keep
स्वकारणे
यत्र
कलास्समग्रा
रूपञ्च
नामात्मविदां
विहाय
।
एकीभवन्त्यंबुनिधौ
यथाप-
स्स
विश्वनाथो
भियमुच्छिनत्तु
॥ २५ ॥
Previous
←
Stabaka 4
Next
Stabaka 6
→