Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 6
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यत्स्वरूपं
न
निर्णेतुं
देशिकोपनतिं
विना
।
शक्यते
पण्डितेनापि
शं
करोतु
स
शंकरः
॥ १ ॥
2
▾
Meaning
Keep
ज्ञाते
यस्मिन्जगत्सर्वं
ज्ञातं
भवति
भावुकः
।
सर्परज्जुवदाधारश्शं
करोतु
स
शंकरः
॥ २ ॥
3
▾
Meaning
Keep
परविद्यैव
यत्
प्राप्तौ
साधनं
कर्मकोटयः
।
कुण्ठी
भवन्ति
यस्याग्रे
शं
करोतु
स
शंकरः
॥ ३ ॥
4
▾
Meaning
Keep
दृश्य
ग्राह्येतरो
गोत्रवर्णहीनश्च
यो
विभुः
।
चक्षुः
श्रोत्रविनिर्मुक्तश्शं
करोतु
स
शंकरः
॥ ४ ॥
5
▾
Meaning
Keep
ऊर्णनाभिर्यथा
तन्तून्
सृजते
संहरत्यपि
।
एवं
यस्सृजते
लोकान्
शं
करोतु
स
शंकरः
॥ ५ ॥
6
▾
Meaning
Keep
तपसा
चीयमानाद्वै
यस्मात्सूत्रादिकं
जगत्
।
प्रादुर्भवति
विश्वेशश्शं
करोतु
स
शंकरः
॥ ६ ॥
7
▾
Meaning
Keep
कर्मणा
वध्यते
जन्तुस्त्यागेन
तु
विमुच्यते
।
विमोक्षरूपो
यस्साक्षाच्छं
करोतु
स
शंकरः
॥ ७ ॥
8
▾
Meaning
Keep
धर्माधर्मौ
समुत्सृज्य
यत्कृपानौकया
बुधः
।
उत्तितीर्षेद्भवांभोधिं
शं
करोतु
स
शंकरः
॥ ८ ॥
9
▾
Meaning
Keep
अविद्या
तमसि
भ्रान्ता
मूढाः
पण्डितमानिनः
।
पीड्यन्ते
यत्पदभ्रष्टाः
शं
करोतु
स
शंकरः
॥ ९ ॥
10
▾
Meaning
Keep
इष्टापूर्त्तं
श्रेष्ठमाहुर्ये
जनाः
कामकामिनः
।
भ्रमन्ति
ते
पदभ्रष्टाश्शं
करोतु
स
शंकरः
॥ १० ॥
11
▾
Meaning
Keep
तपस्यन्तो
वनान्तेषु
भिक्षवश्चादिजान्तिकम्
।
व्रजन्ति
यत्पदभ्रष्टाश्शं
करोतु
स
शंकरः
॥ ११ ॥
12
▾
Meaning
Keep
कर्मनिष्पादिते
लोके
निर्विण्णे
यद्विवित्सया
।
उपेयाद्
गुरुपादाब्जं
शं
करोतु
स
शंकरः
॥ १२ ॥
13
▾
Meaning
Keep
उपसन्नाय
यत्तत्वं
शमादिगुणशालिने
।
ब्रूयते
देशिकेन्द्रेण
शं
करोतु
स
शंकरः
॥ १३ ॥
14
▾
Meaning
Keep
अग्निस्फुलिंगवद्भावा
निस्सरन्ति
यतोऽक्षरात्
।
सर्वेऽपि
यत्र
लीयन्ते
शं
करोतु
स
शंकरः
॥ १४ ॥
15
▾
Meaning
Keep
अन्तर्बहिश्च
संपूर्णो
मनः
प्राणादिवर्जितः
।
अमूर्तो
दिव्यमूर्त्तिर्यश्शं
करोतु
स
शंकरः
॥ १५ ॥
16
▾
Meaning
Keep
द्युलोको
मस्तकं
यस्य
चक्षुषीन्दुदिवाकरौ
।
दिशः
श्रोत्रे
पदं
पृथ्वी
शं
करोतु
स
शंकरः
॥ १६ ॥
17
▾
Meaning
Keep
यस्माद्भवन्ति
भूतानि
वनपर्वतसागराः
।
यस्मात्
स्रवन्ति
गंगाद्याः
शं
करोतु
स
शंकरः
॥ १७ ॥
18
▾
Meaning
Keep
वर्णो
धनुश्शरोह्यात्मा
शरव्यं
ब्रह्मयत्परं
।
द्वैताद्वैतविनिर्मुक्तः
शंकरोतु
सशंकरः
॥ १८ ॥
19
▾
Meaning
Keep
शब्दजालं
समुत्सृज्य
रमन्ते
यत्परात्मनि
।
निस्पृहा
निखिलाधारे
शं
करोतु
स
शंकरः
॥ १९ ॥
20
▾
Meaning
Keep
पिण्डिकायामरा
यद्वद्धमन्यो
यत्र
संहताः
।
तत्रास्ते
वहुधा
नृत्यन्
शं
करोतु
स
शंकरः
॥ २० ॥
21
▾
Meaning
Keep
यस्मिन्
दृष्टे
नष्टकर्मा
छिन्नग्रन्थिरसंशयः
।
मृत्युमुक्तो
भवेन्मर्त्यः
शं
करोतु
स
शंकरः
॥ २१ ॥
22
▾
Meaning
Keep
सूर्यसोमौ
तथा
विद्युद्यं
न
भासयितुं
क्षमाः
।
यद्भासैते
प्रकाशन्ते
शं
करोतु
स
शंकरः
॥ २२ ॥
23
▾
Meaning
Keep
वृक्षे
समाने
विहगौ
निविष्टा-
वेकोऽश्नुते
तत्फलमुच्चगोऽन्यः
।
पश्यन्ननश्नन्न
भियस्सुखात्मा
तमीश्वरं
सौम्यपुरीशमीडे
॥ २३ ॥
24
▾
Meaning
Keep
यत्सत्यवादेन
सताधिगम्यं
संगम्य
यद्भाति
वदन्ति
विज्ञाः
।
यत्क्रीडमात्मज्ञतमं
समर्च्य
मर्त्योऽभ्युदेत्यस्तु
गतिस्स
शंभुः
॥ २४ ॥
25
▾
Meaning
Keep
कामैषिभिश्च
वलरिक्तनरैरलभ्य-
स्सन्यासहीनतपसापि
न
लभ्यते
यः
।
यल्लब्धितस्तु
सुधियस्सरितो
यथाऽब्धि
यं
संविशन्ति
विकलास्तमुमेशमीडे
॥ २५ ॥
Previous
←
Stabaka 5
Next
Stabaka 7
→