Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 9
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
उद्गीथवर्णे
परमे
परात्मा
श्रुत्येकसारे
च
गुणोपजुष्टे
।
उद्गातृवर्यैस्समुपास्यते
य-
स्तमाश्रये
सौम्यपुराधिनाथम्
॥ १ ॥
2
▾
Meaning
Keep
प्राणात्मनाऽध्यात्ममथाधिदैवं
सूर्यात्मना
चाक्षर
सुप्रतीके
।
उद्गीथवित्
पश्यति
यं
हि
देवं
तमाश्रये
सौम्यपुराधिनाथम्
॥ २ ॥
3
▾
Meaning
Keep
ज्योतिर्मयश्मश्रुकचोऽर्के
विंबे
कञ्जे
क्षणस्तिष्ठति
योगिगम्यः
।
उन्नाम
भृद्योय
मृगादि
गेष्ण-
स्तमाश्रये
सौम्य
पुराधिनाथम्
॥ ३ ॥
4
▾
Meaning
Keep
हृन्मन्दिरान्तः
स्थितमात्मदेव-
मानर्चयं
भूदिविषत्
कुमाषैः
।
उषस्तिराधोरणे
भुक्तशेषै-
स्तमाश्रये
सौम्य
पुराधिनाथम्
॥ ४ ॥
5
▾
Meaning
Keep
याः
पञ्चसप्तापि
च
भक्तयस्त
द्युक्तस्य
साम्नो
य
उपासितृणाम्
।
तत्तद्धियाराति
फलञ्च
तत्तत्
तमाश्रये
सौम्यपुराधिनाथम्
॥ ५ ॥
6
▾
Meaning
Keep
यज्ञादिभिः
कृच्छ्रमुखैस्तपोभि-
र्नोपैतियं
नैष्ठिकचर्यया
वा
।
लोकस्तु
लोको
भवतीव
धर्मै-
स्तमाश्रये
सौम्यपुराधिनाथम्
॥ ६ ॥
7
▾
Meaning
Keep
तुर्याश्रमी
तुर्यपदे
हि
यस्मिन्
धर्मोज्झिते
ब्रह्मणि
संस्थितस्सन्
।
अमृत्युभावं
समुपैति
शश्व-
त्तमाश्रये
सौम्यपुराधिनाथम्
॥ ७ ॥
8
▾
Meaning
Keep
छन्दांसि
सारो
भुवि
भूर्भुवःस्व-
स्तत्रापि
तेषु
प्रणवोऽखिलात्मा
।
अग्राहि
धात्रा
स
तु
यत्
प्रतीक-
स्तमाश्रये
सौम्यपुराधिनाथम्
॥ ८ ॥
9
▾
Meaning
Keep
आदित्यगात्रस्सुरमाक्षिकत्व-
मभ्यस्य
सद्धीभिरुपास्यते
यः
।
दिवादयो
वंशमुखा
हि
यत्र
तमाश्रये
सौम्यपुराधिनाथम्
॥ ९ ॥
10
▾
Meaning
Keep
गायत्र्युपाधेः
पुरुषस्य
यस्य
पादोऽस्ति
सर्वं
जगदात्मनिष्ठम्
।
पादत्रयं
वैकृतदूरदूरं
तमाश्रये
सौम्यपुराधिनाथम्
॥ १० ॥
11
▾
Meaning
Keep
श्रोत्राक्षिवाक्
प्राणमनोऽभिधानै-
र्द्वाःस्थैर्निरुद्धं
नृपतेरिवैतत्
।
यद्ब्रह्मणो
हर्म्यमगम्यमस्मा-
त्तमाश्रये
सौम्यपुराधिनाथम्
॥ ११ ॥
12
▾
Meaning
Keep
यज्ज्योतिषो
लिंगमिहोष्णिमांगे
कर्णापिधाने
चरवोऽन्तरंगे
।
यश्श्रूयते
स्यन्दननिःस्वनाभ-
स्तमाश्रये
सौम्यपुराधिनाथम्
॥ १२ ॥
13
▾
Meaning
Keep
यज्जांहि
विश्वं
यदनं
च
यल्लं
तस्मादिदं
सर्वमुपास्यते
ज्ञैः
।
ब्रह्मेति
यत्
संयत
शेमुषीकै-
स्तमाश्रये
सौम्यपुराधिनाथम्
॥ १३ ॥
14
▾
Meaning
Keep
मनोमयं
भाकृति
सर्वे
कर्म-
कामादि
च
प्राण
कलेवरं
च
।
ब्रह्मेति
विद्भिः
क्रियते
ऋतुर्य-
स्तमाश्रये
सौम्यपुराधिनाथम्
॥ १४ ॥
15
▾
Meaning
Keep
हृत्
पुंडरीकांतरणीय
आस्ते
श्यामाकतस्सर्षपतोऽपि
वा
यत्
।
ज्यायो
दिवो
ब्रह्म
तथान्तरिक्षा-
त्तमाश्रये
सौम्यपुराधिनाथम्
॥ १५ ॥
16
▾
Meaning
Keep
कोशाकृतिं
यं
परिकल्प्य
केचित्
पुत्रस्य
दीर्घायुरभीप्सयैव
।
ध्यायंति
जापोपहितं
कुबुध्नं
तमाश्रये
सौम्यपुराधिनाथम्
॥ १६ ॥
17
▾
Meaning
Keep
यद्
ब्रह्मबुद्ध्या
मनसोऽभ्युपास्त
श्चतुष्पदस्य
क्रियतेऽभियुक्तैः
।
वाक्
प्राणचक्षुः
श्रवणैरुमेशं
तमाश्रये
सौम्यपुराधिनाथम्
॥ १७ ॥
18
▾
Meaning
Keep
यद्ब्रह्मबुद्ध्या
खमुपास्यतेऽधि
दैवं
चतुष्पादनलानिलाभ्याम्
।
अर्केण
दिग्भिश्च
महद्भिरुच्चै-
स्तमाश्रये
सौम्यपुराधिनाथम्
॥ १८ ॥
19
▾
Meaning
Keep
वातात्मना
योऽग्निमुखान्
हि
देवान्
संवृङ्क्त
एषोऽनुविभाव्यतेऽतः
।
संवर्गधर्मेण
महाविभूति-
स्तमाश्रये
सौम्यपुराधिनाथम्
॥ १९ ॥
20
▾
Meaning
Keep
प्राणात्मनाऽध्यात्ममपीक्ष्यते
य-
स्संवर्गधर्मं
दशाऽभ्यगच्छत्
।
शूद्रोऽपि
जानश्रुतिरस्य
रैक्वा-
त्तमाश्रये
सौम्यपुराधिनाथम्
॥ २० ॥
21
▾
Meaning
Keep
प्रकाशवानेव
मनंतवांश्च
प्रदीप्तिमानायतनी
च
पादाः
।
यद्ब्रह्मणो
भान्ति
विचिन्तकानां
तमाश्रये
सौम्यपुराधिनाथम्
॥ २१ ॥
22
▾
Meaning
Keep
चतुष्पदं
ब्रह्म
च
षोडशांशं
समुच्चितं
यन्मुनिरादिदेश
।
जाबालकायैतदनन्वयाय
तमाश्रये
सौम्यपुराधिनाथम्
॥ २२ ॥
23
▾
Meaning
Keep
प्राणो
ह्यसौ
ब्रह्मनिरुक्तमेतत्
कं
ब्रह्म
खं
चेत्यनलैस्त्रिभिश्च
।
कार्येतराकारमकारणं
य-
त्तमाश्रये
सौम्यपुराधिनाथम्
॥ २३ ॥
24
▾
Meaning
Keep
वश्ये
क्षणैश्शमपरैरपराजितैर्य-
श्चक्षुस्थ
एष
पुरुषः
पुरुदृश्यतेऽस्य
स्थानेऽपि
सर्पिरुदकं
च
न
सिंचति
श्री
विश्वेशमेतमभयं
शरणं
प्रपद्ये
॥ २४ ॥
25
▾
Meaning
Keep
चित्ते
यदक्षिपुरुषेक्षकमर्चिरुच्चै-
र्घस्रार्ज्जुनोदगयनानि
नयन्ति
वैधीम्
।
संवत्सरो
रविशशांकशतह्रदाश्च
पश्चात्
पुमान्पुरमुदेतु
स
विश्वनाथः
॥ २५ ॥
Previous
←
Stabaka 8
Next
Stabaka 10
→