Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 10
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
प्राणात्मना
देहमुपाश्रितो
यः
श्रेष्ठस्तथा
ज्येष्ठतरश्च
नित्यम्
।
वागादिकान्
धारयतीच्छयैष
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १ ॥
2
▾
Meaning
Keep
श्रद्धादि
जुह्वत्यनलेषु
देवा
द्युलोकमुख्येष्वथ
पूरुषात्मा
।
निष्पद्यते
पञ्चसु
यः
परात्मा
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ २ ॥
3
▾
Meaning
Keep
पञ्चाग्नि
विद्यो
गृहमेधिवर्य-
स्तपोधनो
नैष्ठिक
वेदगश्च
।
सौरायणं
यन्ति
हि
यं
न
सद्यो
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ ३ ॥
4
▾
Meaning
Keep
पञ्चाग्निविद्यामपठन्निगूढां
यद्ब्रह्मबुद्धेरधिरोहिणीं
प्राक्
।
प्रवाहणं
क्षत्रियमेत्य
विप्रो
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ ४ ॥
5
▾
Meaning
Keep
इष्टादि
कृद्धूम
निशासि
तैष्ष–
ण्मासैश्च
पित्र्या
नभसा
च
नीतः
।
चान्द्रीं
पुरीमेति
हयन्नयात्यों
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ ५ ॥
6
▾
Meaning
Keep
खंवायुधूमाभ्रवलाहकाश्च
धारा
च
वृष्टेर्यवकादिरेतः
।
एतैः
पतत्यत्र
सयन्नयात्यों
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ ६ ॥
7
▾
Meaning
Keep
कल्याणकर्मा
कमनीययोनिं
कपूयकर्मा
च
कपूययोनिम्
।
प्रपद्यतेऽङ्गोहह
यं
न
यात्यों
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ ७ ॥
8
▾
Meaning
Keep
विद्याथवेष्टादि
न
सेव्यते
यै–
स्ते
यान्ति
दंशादिपदं
तृतीयम्
।
पथच्युता
यत्
पददूरदूरं
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ ८ ॥
9
▾
Meaning
Keep
कष्टागतिर्जन्म
जरादि
दुःखो–
त्सृष्टा
हि
यं
संसरणस्य
धीरः
।
तस्माज्जुगुप्सेत
बुभुत्समानो
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ ९ ॥
10
▾
Meaning
Keep
द्युमूर्द्धं
मुख्यावयवैर्विशिष्टं
वैश्वानरं
कृत्स्नमुपासते
यम्
।
आत्मानमात्मन्यमलान्तरंगा
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १० ॥
11
▾
Meaning
Keep
प्रादेशमात्रं
प्रभुमीश्वरं
यं
वैश्वानरं
ह्यश्वपतेरवायन्
।
विप्राश्च
राजन्यपतेरजन्यं
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ ११ ॥
12
▾
Meaning
Keep
येन
श्रुतेन
श्रुतमेव
सर्वं
यच्चेन्मतं
स्यान्मतमेव
सर्वम्
।
यन्निश्चितं
निश्चितमेव
सर्वं
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १२ ॥
13
▾
Meaning
Keep
विकार
एतत्
खलुनाममात्रं
जगद्यथा
मृन्मयमाश्रयो
यः
।
मृत्पिण्डवत्
सन्तत
सत्यमूर्त्ति-
र्नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १३ ॥
14
▾
Meaning
Keep
विकार
एतत्
खलु
नाममात्रं
जगद्यथा
हैममथाश्रयो
यः
हेमोपमस्सन्तत
सत्यमूर्त्ति-
र्नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १४ ॥
15
▾
Meaning
Keep
विकार
एतत्
खलु
नाममात्रं
जगद्यथा
पैण्डमथाश्रयो
यः
।
पिण्डोपमस्सन्तत
सत्यमूर्त्ति-
र्नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १५ ॥
16
▾
Meaning
Keep
अग्रे
सदासीदसतः
कथं
स-
ञ्जायेत
यत्
सर्वमिदं
ससर्ज
।
त्रिवृत्
कृतैरग्निपुरोगमैर्यो
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १६ ॥
17
▾
Meaning
Keep
प्राणादि
सम्यग्ध्रियते
च
येन
जीवात्मना
विश्वमनुप्रविश्य
।
व्याकुर्वता
नाम
च
रूपमस्मै
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १७ ॥
18
▾
Meaning
Keep
वुद्ध्यादिमात्रान्वय
जोहि
यद्व-
दादर्शविंवः
प्रतिभाति
जीवः
।
या
देवता
न
च्यवते
महिम्नो
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १८ ॥
19
▾
Meaning
Keep
तेजोंऽवुपृथ्वीमयमग्नितत्वं
तेभ्यो
न
भिन्नं
न
च
वस्तुतस्सत्
।
तथा
जगद्यस्य
विकारमात्रं
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ १९ ॥
20
▾
Meaning
Keep
तेजोंऽबुपृथ्वीमय
एष
सूर्य-
स्तेभ्यो
न
भिन्नोऽस्ति
विवेककाले
।
तथा
जगन्नास्ति
हिरुग्यतोऽस्मै
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ २० ॥
21
▾
Meaning
Keep
तेजोंऽबुपृथ्वीमय
एष
चन्द्र-
स्तेषां
हि
रक्तार्जुनकृष्णरूपैः
।
रूपी
भवत्येवमिदं
यदीयं
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ २१ ॥
22
▾
Meaning
Keep
तेजोंऽबुपृथ्वी
विकृतिश्च
विद्यु-
द्विचारितेऽपैति
तटित्
प्रतीतिः
।
तथा
यदग्रे
न
जगद्विभात्यों
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ २२ ॥
23
▾
Meaning
Keep
अन्नस्य
धातुर्जलतेजसोश्च
हृत्
प्राणवाचोऽणुतमोऽभिमानी
।
यस्तत्र
कर्तृत्वपदे
पतत्यों
नमश्शिवायास्तु
नमोऽस्तु
तस्मै
॥ २३ ॥
24
▾
Meaning
Keep
नाश्नाति
पञ्चदश
चेत्
पुरुषो
दिनानि
भायान्न
षोडशकलः
पठितं
हि
किञ्चित्
।
तस्मान्मनोऽन्नमयमंबु
पिबेन्नबाधः
प्राणस्य
तत्र
विहरन्
गतिरस्तु
शंभुः
॥ २४ ॥
25
▾
Meaning
Keep
पायादुपाध्युपहितः
पुरुषोनुवेलं
ध्यायन्निव
व्यवहरन्निव
दृश्यमानः
।
यस्यां
विवित्त्युपशमे
परदेवताया-
मानन्दधाम्नि
विनिमज्जति
मां
स
शंभुः
॥ २५
Previous
←
Stabaka 9
Next
Stabaka 11
→