Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 12
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
हयक्रतुप्राज्य
समग्रकर्मभि-
स्तसमुचितो
पास्तिभिरप्यतद्विदा
।
न
लभ्यते
भव्यमभव्य
वस्तु
य-
त्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १ ॥
2
▾
Meaning
Keep
प्रजेशमध्यस्यति
मेध्यसैन्धवे
यमग्निवाय्वार्यमभावभृच्च
यः
।
क्रियाफलं
कारकमप्ययं
विराट्
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ २ ॥
3
▾
Meaning
Keep
यमश्मसंघट्टित
पांसुपिण्डव-
द्विशीर्यते
पङ्कमभिद्रवत्
स्वयम्
।
उपास्यरूपं
ज्ञानरूपरूपिणं
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ ३ ॥
4
▾
Meaning
Keep
विराट्
स्वरूपेण
य
एकलः
पुरा
विभाय
पश्चाद्वुबुधे
न
किञ्चन
।
मदन्यदस्तीति
ततः
कुतो
भयं
तमाश्रयाम्युत्तर
काशिकाधवम्
॥ ४ ॥
5
▾
Meaning
Keep
सुतात्
सुवर्णादथ
दैववित्ततो-
प्यतिप्रियोऽभ्यन्तर
एष
पूरुषः
।
विनङ्क्ष्यति
ह्यन्यदशेषमात्मन-
स्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ ५ ॥
6
▾
Meaning
Keep
सुराश्च
सर्वेत्वमगुर्नर्षयो
यदात्मबोधेन
ततोऽभवं
मनुः
।
रविश्च
हेत्यैक्षत
वामदैवतं
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ ६ ॥
7
▾
Meaning
Keep
स्तुतिप्रणामप्रणिधानपूजनै-
र्यदात्मनोऽन्यां
भजतेऽनुदेवताम्
।
य
आत्मघाती
स
पशुर्दिवौकसां
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ ७ ॥
8
▾
Meaning
Keep
पितृस्वरूपेण
च
योऽन्नसप्तकं
विधाय
जन्तून्
विबुधान्
पशूनपि
।
अभाजयत्
स्वश्च
यथास्वमेव
त-
त्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ ८ ॥
9
▾
Meaning
Keep
मनोमयः
प्राणमयोऽथ
वाङ्मयः
पितृत्वमासाद्य
जिघत्सतीव
यः
।
फलान्यजन्मा
निजकर्मयन्त्रित-
स्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ ९ ॥
10
▾
Meaning
Keep
मनुष्यलोकस्स्वसुतेन
कर्मणा
पितुश्च
लोकस्सुरवेश्मविद्यया
।
विजय्य
एतैर्न
विजीयते
तु
य-
स्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १० ॥
11
▾
Meaning
Keep
भवोऽयमव्यक्त
तदन्य
लक्षण-
स्त्रयं
हि
वै
नाम
च
रूप
कर्मणी
।
अतो
विरज्येत
बुधो
यदीप्सया
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ ११ ॥
12
▾
Meaning
Keep
रवीन्दु
विद्युत्
प्रमुखेषु
पूरुषो
विचिन्त्यते
ब्रह्म
तदन्यदूचिवान्
।
अजातशत्रुर्मुनयेऽपि
यत्
परं
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १२ ॥
13
▾
Meaning
Keep
हृदंबुजे
व्योमनियत्र
धीमय-
स्सुखेन
शेते
नृपबालविप्रवत्
।
अखण्ड
सद्ब्रह्म
तदेव
साक्षिचि-
त्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १३ ॥
14
▾
Meaning
Keep
विदन्ति
यं
प्राण
शरीरकं
शिशुं
शरीरमाधानममुष्य
केचन
।
शिरोवराधानमथान्नबन्धनी
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १४ ॥
15
▾
Meaning
Keep
सदास्ति
मूर्त्तं
कुजलानलात्मकं
त्यदस्त्यमूर्त्तं
मरुदंबरात्मकं
।
अतीत्य
चैतेऽवधिभूर्विभाति
य-
त्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १५ ॥
16
▾
Meaning
Keep
न
वित्तपूर्णा
चलया
च
लभ्यते
यदात्मभावामृतभावनिर्वृतिः
।
सुखं
सुखान्याहरतीव
वित्तवान्
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १६ ॥
17
▾
Meaning
Keep
यदात्मकामाय
पतिः
प्रियो
भवे-
द्यदात्मकामाय
च
कामिनी
प्रिया
।
यदात्मकामाय
सुतःप्रियो
भवे-
त्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १७ ॥
18
▾
Meaning
Keep
यदात्मकामाय
वसु
प्रियं
भवे-
त्तथा
च
लोकामरजन्तवः
प्रियाः
।
यदात्मनोऽर्थे
निखिलं
च
वल्लभं
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १८ ॥
19
▾
Meaning
Keep
यदात्मनः
प्रेष्ठतमस्य
दृष्टये
श्रुतिर्मतिध्यानमपि
प्रकीर्त्यते
।
तथा
विदन्
ब्रह्मभवत्यशेषवि-
त्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ १९ ॥
20
▾
Meaning
Keep
यदात्मनोऽन्यत्र
सुरादिकान्
विदन्
पराक्रियेताज्ञतमस्सदुष्टुतैः
।
जगत्समस्तं
हि
सतत्वमात्मन-
स्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ २० ॥
21
▾
Meaning
Keep
न
किञ्चिदस्ति
व्यतिरेकतश्चिते-
स्ततस्तदात्मत्वमनात्मवस्तुनः
।
निनादवद्दुन्दुभिशंखयोर्भृशं
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ २१ ॥
22
▾
Meaning
Keep
यथा
पृथग्धूमकणा
धनञ्जया-
स्तथर्ग्यजुस्साम
च
निस्सरन्ति
हि
।
यतः
परान्निश्वसितोपमं
नरा-
स्तमाश्रयाम्युत्तरकाशिकाधवम्
॥ २२ ॥
23
▾
Meaning
Keep
विलीयतेऽक्षे
विषयस्तदात्मनि
धियाश्चसोऽप्यात्मनि
यत्र
शेमुषी
।
अनन्तविज्ञानघनेऽप्समुद्रवत्
तमाश्रयाम्युत्तरकाशिकाधवम्
॥ २३ ॥
24
▾
Meaning
Keep
लवणशकलमप्सु
प्रास्तमस्तं
गतं
स-
सदनुपृथगमूभ्यश्शक्यते
नोद्ग्रहीतुम्
।
विदपियदपियातस्तद्बुद्भिन्नमात्रो
भवति
न
बहुसंज्ञस्तं
भजे
विश्वनाथम्
॥ २४ ॥
25
▾
Meaning
Keep
स्फुटसमुदितसम्यग्वित्तितो
यस्य
भित्ति-
र्व्यपसरति
समूलं
विश्वमात्मैव
भाति
।
तदनुकथमुतिष्ठेत्
कर्तृकर्मक्रियादि-
व्यवहृति
रसतीयं
विश्वनाथस्समाऽव्यात्
॥ २५ ॥
Previous
←
Stabaka 11
Next
Stabaka 13
→