Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 13
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
पृथ्वीसमस्तजनिमन्मधुजन्तुवर्गैः
पृथ्वीमधुद्विविधपूरुष
एष
पृथ्व्याम्
।
मूर्त्तौश्च
यस्य
मधुतन्मधुकारणात्मा
ब्रह्मास्ति
यत्तमनिशं
स्मर
विश्वनाथम्
॥ १ ॥
2
▾
Meaning
Keep
पूषा
समस्तजनिमन्मधुजन्तुवर्गैः
पूष्णोमधुद्विविधपूरुष
एष
पूष्णि
।
नेत्रे
च
यस्समधुसर्वमधूद्वहं
स-
द्ब्रह्मास्ति
यत्तमनिशं
स्मर
विश्वनाथम्
॥ २ ॥
3
▾
Meaning
Keep
यद्ब्रह्मभूतविबुधे
निखिलात्मभूते
भूतानि
चेन्द्रियगणाभुवनात्मदेवाः
।
सर्वेऽर्पितास्सममरा
इव
चक्रनाभौ
रे
रे
मनस्तमनिशं
स्मर
विश्वनाथम्
॥ ३ ॥
4
▾
Meaning
Keep
योऽयं
परात्परतरः
पुरुरूपधारी
मायावशात्
प्रतिशरीरमनुप्रविश्य
।
सर्वानुभूर्भवति
निर्भयशोकमेकं
रे
रे
मनस्तमनिशं
स्मर
विश्वनाथम्
॥ ४ ॥
5
▾
Meaning
Keep
पुण्येन
पापपटलेन
च
तत्तदेत्य
जन्मेह
हन्त
विषयेन्द्रियमृत्युचक्रे
।
भ्राम्यत्यनारतमवैति
न
मृत्युमृत्युं
यं
कर्मठस्तमनिशं
स्मर
विश्वनाथम्
॥ ५ ॥
6
▾
Meaning
Keep
पारिक्षित
प्रभृतयः
पुरुपुण्यपुञ्ज-
भाजोऽपि
सूत्रभुवनादि
भवप्रभेदान्
।
गच्छन्ति
मोक्षभवनं
न
विशन्ति
यस्य
रे
रे
मनस्तमनिशं
स्मर
विश्वनाथम्
॥ ६ ॥
7
▾
Meaning
Keep
साक्षाद्यदस्ति
निखिलात्मकमात्मवस्तु
विश्वाति
विश्वमथ
संहति
सन्नियन्तृ
।
ब्रह्माद्वयं
यदि
तरत्
खपुरीव
चार्तं
रे
रे
मनस्तमनिशं
स्मर
विश्वनाथम्
॥ ७ ॥
8
▾
Meaning
Keep
यद्ब्रह्म
चैकमखिलान्तरमस्यवित्त्यै
प्रत्यक्
षडूर्मिरहितं
गुणिनो
ह्यगौणम्
।
भिक्षार्थिनस्स्वयमटन्ति
बुधा
विधूय
विश्वैषणास्तमनिशं
स्मर
विश्वनाथम्
॥ ८ ॥
9
▾
Meaning
Keep
यद्ब्रह्मबोधमभिकांक्ष्य
बुधानिरीहा
मुण्डाविवर्णवसनाश्च
विवर्णलिङ्गाः
।
आरण्यकेषु
विचरन्ति
च
यत्
प्रबुद्धा
निष्किञ्चनास्तमनिशं
स्मर
विश्वनाथम्
॥ ९ ॥
10
▾
Meaning
Keep
निश्शेषमेतमवबुद्ध्ययमात्मविद्य-
द्विज्ञाननिष्ठितमतिर्मननैकशीलः
।
पाण्डित्यबाल्यमुनिताभिरकृत्यशेष-
स्सर्वोऽभवेत्तमनिशं
स्मर
विश्वनाथम्
॥ १० ॥
11
▾
Meaning
Keep
यद्ब्रह्म
सम्यगवगच्छति
यो
महात्मा
प्रत्यक्तया
भवति
विश्वतनुश्च
विद्वान्
।
स
ब्राह्मणस्स
पुरुपूज्यतमस्स
धन्य-
स्तस्मै
नमस्तमनिशं
स्मर
विश्वनाथम्
॥ ११ ॥
12
▾
Meaning
Keep
वर्णाश्रमास्पृगशरीर
पदे
हि
यस्मिन्
तादृग्धियैव
विहरेदिह
यो
विपश्चित्
।
स
ब्राह्मणस्स
बहुमान्यतमस्स
धन्य-
स्तस्मै
नमस्तमनिशं
स्मर
विश्वनाथम्
॥ १२ ॥
13
▾
Meaning
Keep
विप्रोहमाढ्यकुलवानिति
मन्यमानो
न
ब्राह्मणश्चिदहमित्यनुचिन्तयन्
यत्
।
स
ब्राह्मणस्स
बहुमान्यतमस्स
धन्य-
स्तस्मै
नमस्तमनिशं
स्मर
विश्वनाथम्
॥ १३ ॥
14
▾
Meaning
Keep
ओतश्चमिश्रितममिश्रित
भूतवर्गे
प्रोतश्चसोऽथसकलाश्रयसूत्रदेवे
।
प्राणात्मनि
स्वयमतर्क्यमहिम्नि
सोऽभ्यु-
द्भूतो
यतस्तमनिशं
स्मर
विश्वनाथम्
॥ १४ ॥
15
▾
Meaning
Keep
सूत्रञ्च
संग्रथितसर्वजगद्यथा
स्रक्
सूत्रेण
तस्य
च
नियन्तृ
यदन्तरस्थम्
।
जानन्
भवत्यमरवित्
स्वपरत्रयीवि-
न्निश्शेषवित्तमनिशं
स्मर
विश्वनाथम्
॥ १५ ॥
16
▾
Meaning
Keep
पृथ्व्यां
स्थितोऽन्तरतरो
यमकृच्च
पृथ्वी
यं
वेद
यस्य
पृथिवी
तनुरात्मभूतम्
।
सर्वस्य
निर्वपुषमस्तसमस्तधर्मं
नारायणं
तमनिशं
स्मर
विश्वनाथम्
॥ १६ ॥
17
▾
Meaning
Keep
तिष्ठन्
जले
नियमकृच्च
जलस्य
यो
यं
नो
वेत्ति
कं
जलतनुश्च
जलान्तरास्ते
।
आत्मा
च
कृत्स्न
जगतो
ह्यभवो
च
यः
श्री
नारायणं
तमनिशं
स्मर
विश्वनाथम्
॥ १७ ॥
18
▾
Meaning
Keep
भूतेषु
तिष्ठति
समेषु
नियामकश्च
तेषां
हि
भूततनुरन्तरगश्च
योऽसौ
।
नावैति
भूतततिरात्मदर्शी
च
यं
श्री
नारायणं
तमनिशं
स्मर
विश्वनाथम्
॥ १८ ॥
19
▾
Meaning
Keep
द्रष्टा
न
दृष्टिविषयः
श्रुतिगोचरो
न
श्रोताऽमतो
मननकृच्च
न
बुद्धिबोध्यः
।
वोद्धा
च
योऽन्यरहितश्च
यदन्यदार्त्तं
स्रक्सर्पवत्तमनिशं
स्मर
विश्वनाथम्
॥ १९ ॥
20
▾
Meaning
Keep
सर्वेऽपि
येन
विधृताः
खलु
लोकिलोकाः
सोऽव्याकृते
नभसि
तत्तु
यदक्षरे
च
।
गांगेयकुण्डलनिभं
प्रतितिष्ठति
श्री-
सच्चिद्घनं
तमनिशं
स्मर
विश्वनाथम्
॥ २० ॥
21
▾
Meaning
Keep
अस्थूलमेतदनणुश्रवणाक्षिवाणी-
हीनं
ह्यलोहितमवाह्यमनन्तरं
च
।
अप्राणमस्तगुणमस्ति
यदेव
भोक्तृ
भोज्येतरस्तमनिशं
स्मर
विश्वनाथम्
॥ २१ ॥
22
▾
Meaning
Keep
यस्य
प्रशासनमहिम्न
इमौ
रवीन्दू
स्वस्वोदयास्तमयकर्मणि
निष्ठितौस्तः
।
स्वश्चस्थिरास्थिरतरं
स्फुटनाद्यपेतं
निस्तिष्ठस्तमनिशं
स्मर
विश्वनाथम्
॥ २२ ॥
23
▾
Meaning
Keep
यस्य
प्रशासनमहिम्न
इमे
च
काला
मासर्तुवत्सरपराः
कलयन्ति
जन्तून्
।
नद्यः
स्रवन्ति
धवलाद्धिमशैलतश्च
गंगादयस्तमनिशं
स्मर
विश्वनाथम्
॥ २३ ॥
24
▾
Meaning
Keep
यजनतपनवुद्धिर्वुद्धयते
यन्न
यस्सं-
सरति
स
कृपणो
यस्त्वक्षरं
ब्रह्मसम्यक्
।
विगतविषयतृष्णो
वेत्ति
स
ब्रह्मभूतो
भवति
भवविमुक्त्यै
भावयेतद्भवांघ्रिम्
॥ २४ ॥
25
▾
Meaning
Keep
अचलितचिंतिमात्रं
ह्यक्षरं
ब्रह्मयद्वै
प्रचलिततनुतन्वां
दर्शनादिक्रियाकृत्
।
सकल
सजनुरन्तर्यन्तृचोपाधिभेदा-
द्भवति
भवविमुक्त्यै
भावयेतद्भवांघ्रिम्
॥ २५ ॥
Previous
←
Stabaka 12
Next
Stabaka 14
→