Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 15
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
काल
एव
जगन्मूलं
स्वभाव
इति
चापरे
।
वदन्ति
यमजानन्तः
स
शंभुः
प्रीयतां
प्रभुः
॥ १ ॥
2
▾
Meaning
Keep
भूतानि
जगतो
मूलं
यदृच्छेति
च
केचन
।
जानन्ति
यमजानन्तः
स
शंभुः
प्रीयतां
प्रभुः
॥ २ ॥
3
▾
Meaning
Keep
गुणैर्निगूढो
यो
देवः
कारणानाञ्च
कारणम्
।
स
एव
जगतो
मूलं
स
शंभुः
प्रीयतां
प्रभुः
॥ ३ ॥
4
▾
Meaning
Keep
विश्वमाया
विनाशस्स्याद्यस्य
देवस्य
दर्शनात्
।
अक्षरस्य
क्षरेशस्य
स
शंभुः
प्रीयतां
प्रभुः
॥ ४ ॥
5
▾
Meaning
Keep
क्लेशपाशापहानिस्तु
देवं
ज्ञात्वैव
नान्यथा
।
ब्रह्मशब्दाभिधेयं
यं
स
शंभुः
प्रीयतां
प्रभुः
॥ ५ ॥
6
▾
Meaning
Keep
योनिनिष्ठो
यथावह्निस्तद्वदात्मापि
देहगः
।
योऽदृश्यो
दृश्यतेऽभ्यासात्
स
शंभुः
प्रीयतां
प्रभुः
॥ ६ ॥
7
▾
Meaning
Keep
क्षीरे
सर्पिर्यथा
तद्वदात्मा
यस्सर्वगोऽद्वयः
।
गृह्यते
सत्यतपसा
स
शंभुः
प्रीयतां
प्रभुः
॥ ७ ॥
8
▾
Meaning
Keep
समेदेशे
विशुद्धे
च
गुहादौ
वातवर्जिते
।
स्थित्वैव
यमनुध्यायेत्
स
शंभुः
प्रीयतां
प्रभुः
॥ ८ ॥
9
▾
Meaning
Keep
यस्याभिव्यक्तितः
पूर्वमर्कधूमादि
दर्शनम्
।
संभवेद्योगिनां
योगे
स
शंभुः
प्रीयतां
प्रभुः
॥ ९ ॥
10
▾
Meaning
Keep
कृतार्थो
भ्राजते
योगी
तेजोमयकलेवरः
।
प्रत्यञ्चं
वीक्ष्य
यं
साक्षात्
स
शंभुः
प्रीयतां
प्रभुः
॥ १० ॥
11
▾
Meaning
Keep
विश्वबाहुर्विश्वमूर्तिर्विश्वेशो
विश्वभावनः
।
विश्वाधारश्चयो
रुद्रः
स
शंभुः
प्रीयतां
प्रभुः
॥ ११ ॥
12
▾
Meaning
Keep
ज्यायोऽणीयो
वा
न
किञ्चिद्यस्मात्
स्तब्धश्चकास्तिः
वृक्षवन्मोक्षदो
मोक्षः
स
शंभुः
प्रीयतां
प्रभुः
॥ १२ ॥
13
▾
Meaning
Keep
योषा
पुमान्
कुमारश्च
कुमारी
चास्ति
यो
विराट्
।
दण्डग्राही
च
जरठः
स
शंभुः
प्रीयतां
प्रभुः
॥ १३ ॥
14
▾
Meaning
Keep
अजया
मोहितो
भुङ्क्ते
जनस्तां
न
जिहासति
।
गुणमय्या
तु
यच्छक्त्या
स
शंभुः
प्रीयतां
प्रभुः
॥ १४ ॥
15
▾
Meaning
Keep
मायया
सृजते
विश्वं
मायी
यस्संगवर्जितः
।
अन्यस्तु
सज्जते
तस्मिन्
स
शंभुः
प्रीयतां
प्रभुः
॥ १५ ॥
16
▾
Meaning
Keep
उपादानं
माया
शबलितपरब्रह्मजगतः
प्रधानं
वाणुर्वा
क्षणिकचिदसद्वा
न
भवति
।
निचाय्यैतद्योनिं
यदिह
विबुधानिर्वृतिमिता-
स्सदा
तद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ १६ ॥
17
▾
Meaning
Keep
तमो
वा
रात्रिर्वा
दिवसगणना
वा
द्युतिरियं
नयत्रस्वस्मिन्
यद्विलसति
शिवं
शान्तमतुलम्
।
न
शून्यं
नाशून्यं
स
जनुरजनुश्चापि
यदहो
सदा
तद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ १७ ॥
18
▾
Meaning
Keep
अधश्चोर्द्ध्वं
पश्चात्
पुरत
इति
सर्वासु
नितरां
ककुप्सु
भ्राजिष्णुप्रसृतमहमित्येतदृषयः
।
निगूढं
यत्
पूर्वेऽविदुरपि
विदन्त्यद्य
सुधियः
सदा
तद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ १८ ॥
19
▾
Meaning
Keep
परात्मा
पाच्यानां
परिपचनकृत्
प्रच्युतिमृती
विभीतो
यस्माद्यः
स्वयमसुभृतां
कर्मफलदः
।
विधत्ते
कर्मोत्ति
ध्रुवमथफलं
तस्य
विविधं
सदा
तद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ १९ ॥
20
▾
Meaning
Keep
न
योषित्
षण्डो
वा
न
खलु
पुरुषो
वापि
पुरुषः
परात्मा
योऽलिंगोप्यतनु
तनुरूपैः
प्रकृतिजैः
।
सलिंगः
क्रीडत्यातनुरिदमवष्टभ्य
भुवनं
सदा
तद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ २० ॥
21
▾
Meaning
Keep
महिम्नायस्येदं
भ्रमति
भवचक्रं
भवपते-
र्भ्रमेर्न्नो
कालेन
प्रकृतिवशतो
वा
न
च
भवेत्
।
भ्रमेनैष्कारण्यं
शिवशिवतवैषोऽपि
महिमा
सदा
तद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ २१ ॥
22
▾
Meaning
Keep
न
कार्यं
यस्येषन्न
च
करणमप्यस्य
सदृशः
कनीयान्
ज्यायान्
वा
न
च
गुणमयी
यस्य
विपुला
स्वतः
सिद्धाशक्तिर्विलसति
विबोधादि
वपुषा
सदातद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ २२ ॥
23
▾
Meaning
Keep
प्रधानक्षेत्रज्ञ
प्रभुरभवहेतुर्न
च
पति-
र्यदन्यः
कश्चिद्यो
जनयति
विधिं
विश्वजनकम्
।
यदैश्वर्यात्
स्फारं
स्फुरति
हृदये
चास्य
निगमः
सदा
तद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ २३ ॥
24
▾
Meaning
Keep
अबुद्ध्वा
ब्रह्मैतद्यदि
यदमृतं
याति
मनुज-
स्तदा
कुर्यात्
कृत्तेरिव
च
वियतो
वेष्टनमपि
।
मुमुक्षुर्यं
विद्याद्विषयविधुरेणैव
मनसा
सदा
तद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ २४ ॥
25
▾
Meaning
Keep
निरुद्धे
चित्ते
तु
स्फुरति
परविद्या
स्फुटमियं
महामोहध्वान्तं
दलयति
पलालोपममथ
।
निरर्थान्
ग्रन्थौघान्
त्यजति
यदभिज्ञप्तिनिरतः
सदा
तद्देवांघ्रिस्मरणमधुमत्तं
भव
मनः
॥ २५ ॥
Previous
←
Stabaka 14
Next
Stabaka 16
→