Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 16
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
यमिह
पश्यति
चास्तिकतामति-
श्चरणभक्तिरचञ्चलधीरपि
।
इति
गुणत्रयनेत्रयुतः
पुमान्
स
हृदि
खेलतु
सौम्यप्रतिस्सदा
॥ १ ॥
2
▾
Meaning
Keep
द्विविधकर्मचयेन
तथात्मजै-
र्धनचयैश्च
न
कश्चिदवाप्नुयात्
।
यदवबोधजयत्
पदनिर्वृतिं
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ २ ॥
3
▾
Meaning
Keep
सकलसन्यसनं
न
ततोऽन्यतो
यदनुदर्शनसाधनमिष्यते
।
परमहंसपदात्मकमास्तिकैः
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ ३ ॥
4
▾
Meaning
Keep
यतय
एव
यदात्मसमाधिना
सुखसरस्वतिमज्जितुमीश्वराः
।
गृहपरा
न
तथा
गृहमेधिनः
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ ४ ॥
5
▾
Meaning
Keep
विमलचित्ततनुर्विजने
जन-
श्शिवमवक्रतनुश्च
विचिन्तयेत्
।
जितहृषीकगतिर्यमुतस्थिवान्
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ ५ ॥
6
▾
Meaning
Keep
असितकण्ठमुमेशमनद्भुतं
प्रभुमजं
त्रिदशं
परमेश्वरम्
।
हृदि
वृधीत
तथायमनन्यधीः
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ ६ ॥
7
▾
Meaning
Keep
यमनुसंदधदेवमुमाधवं
सुखचिदात्मकमात्मपदं
मुनिः
।
सकलसाक्षिणमृच्छति
चिद्घनं
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ ७ ॥
8
▾
Meaning
Keep
कमलजः
कमलापतिरप्ययं
पशुपतिः
सुरतारपती
च
सः
।
यमिह
पश्यति
यो
निजहृत्तटे
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ ८ ॥
9
▾
Meaning
Keep
पुरिशयं
पुरुषं
परमादरा-
द्यमनुवीक्ष्य
विलंघयति
क्षणात्
।
जनिमृती
न
विमुक्तिरितोऽन्यथा
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ ९ ॥
10
▾
Meaning
Keep
निरवशेषमवस्थितमात्मनि
स्वहृदयान्तरिदं
हि
चराचरं
।
इति
नितान्तमतिः
पदमेति
यत्
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ १० ॥
11
▾
Meaning
Keep
सुधिषणा
प्रणवारणि
घर्षणा-
ज्ज्वलित
एष
दहेज्ज्वलनो
भृशम्
।
यदवबोधतनुर्भवबन्धनीं
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ ११ ॥
12
▾
Meaning
Keep
स्वयमसंगचिदुद्यदविद्यया
विपरिमूढ
इवोढकलेवरः
।
चलति
यो
ललनादिषु
जाग्रति
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ १२ ॥
13
▾
Meaning
Keep
अथ
च
यः
करणोपरमेस्वयं
सृजति
वासनया
सकलं
जगत्
।
अथ
निमज्जति
गाढतमः
प्रहौ
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ १३ ॥
14
▾
Meaning
Keep
निरुपमे
निजधाम्नि
निरंकुशे
सुखघनेऽस्तसमस्तभिदे
हि
यः
।
स्वयमिह
स्वमहिम्नि
विराजते
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ १४ ॥
15
▾
Meaning
Keep
स्वकृतकर्मनियन्त्रित
एव
यः
स्वभवनाद्धिविनिष्क्रमते
बहिः
।
व्यवहरत्यथ
पूरुष
भावभृत्
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ १५ ॥
16
▾
Meaning
Keep
त्रिषु
पुरेष्वयमेव
मनारतं
चरति
यः
पुरुधा
रचयन्
स्वयम्
।
भुवनमेतदशेषमविद्यया
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ १६ ॥
17
▾
Meaning
Keep
इदमखण्डचिति
प्रविलीयते
सुखसरस्वति
यत्र
पुरत्रयम्
।
उरगरज्जुनिभे
च
निजात्मनि
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ १७ ॥
18
▾
Meaning
Keep
अमृतमायतनं
जगतो
बृह-
त्तनुतमञ्च
सदाचिति
वस्तु
यत्
।
पुरुष
एष
तदेव
चिरन्तनं
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ १८ ॥
19
▾
Meaning
Keep
श्रवणदर्शनकृत्
स्वयमद्वयः
श्रवणदृग्रहितोऽपि
महाद्भुतम्
।
चरणकृच्चरणञ्च
विनैव
य-
स्स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ १९ ॥
20
▾
Meaning
Keep
स्पृशति
नो
सुकृतं
न
च
दुष्कृतं
यमथ
यस्य
न
धीवपुरिन्द्रियम्
।
जनिमृती
च
न
भूप्रभृतीन्यपि
स
हृदि
खेलतु
सौम्यपतिस्सदा
॥ २० ॥
21
▾
Meaning
Keep
निरातङ्के
यस्मिन्
निरुपचरितब्रह्मणि
सदा
मनोलीनं
यस्य
त्यजति
ससुतान्
दारसुहृदः
।
अथैकं
कौपीनं
विहरति
गृहीत्वा
विगतभीः
स
शंभुः
स्वाराज्ये
दिशतु
वसतिं
सौम्यनिलयः
॥ २१ ॥
22
▾
Meaning
Keep
न
शीतं
नाप्युष्णं
न
सुखमसुखञ्चापि
निधनं
न
मानामानौ
छुक्क्षुदपि
न
पिपासा
न
विषयाः
।
यदात्मक्रीडैकप्रवणधिषणस्यास्ति
विदुषः
स
शंभुः
स्वाराज्ये
दिशतु
वसतिं
सौम्यनिलयः
॥ २२ ॥
23
▾
Meaning
Keep
नदंभो
दर्पोऽहंकृतिरथ
न
निन्दास्तुतिरपि
न
कामः
क्रोधो
वा
कुणपमिव
गर्ह्यं
स्वकवपुः
।
न
शौद्र्यं
वैप्र्यं
यत्
परपरमहंसस्य
विदुषः
स
शंभुः
स्वाराज्ये
दिशतु
वसतिं
सौम्यनिलयः
॥ २३ ॥
24
▾
Meaning
Keep
न
दण्डी
यः
काष्ठग्रहणपटुरज्ञानजटिलः
स
दण्डी
ह्युद्दण्डान्
सुदृढषडरीन्
यो
दमयति
।
धृतो
यद्ब्रह्मण्यव्यभिचरितनिष्ठैकलगुडः
स
शंभुः
स्वाराज्ये
दिशतु
वसतिं
सौम्यनिलयः
॥ २४ ॥
25
▾
Meaning
Keep
अनिष्ठो
यन्निष्ठः
स्थिरमतिरनन्तोदवसितः
हिरण्ये
चातृष्णो
रुचिरविषयेष्वात्मधनिकः
।
वरेण्यो
यो
भिक्षुस्सतु
जयति
नान्येऽघनिधयः
स
शंभुः
स्वाराज्ये
दिशतु
वसतिं
सौम्यनिलयः
॥ २५ ॥
Previous
←
Stabaka 15
Next
Stabaka 17
→