Contents
Sacred Lives
Home
Library
Find
Shelf
Settings
←
Leave
Saumyakāśīśa Stotram · Stabaka 17
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
▾
Meaning
Keep
शिखरीप्रपतत्यथोदधिः
परिशुष्यत्यवनिर्निमज्जति
।
किमिहास्तिभवेऽभवं
भवं
शरणं
याहि
शिवं
शिवाधवम्
॥ १ ॥
2
▾
Meaning
Keep
अरमन्धतमः
प्रह्वौनरः
प्लववद्घोरभवे
विघूर्णति
।
गतिरत्र
भवत्
पदांबुजे
रतिरेवोत्तरकाशिकेश्वर
॥ २ ॥
3
▾
Meaning
Keep
मैथुनोत्थमतिमात्रकच्चरं
चात्रसूत्रकुहराद्विनिर्गतम्
।
गात्रमेतदसृगस्थिसञ्चितं
तत्र
किं
कुरु
रतिं
त्रिलोचने
॥ ३ ॥
4
▾
Meaning
Keep
स्पर्शरूपरसगन्धनिस्वने-
ष्वाशया
भ्रमति
यः
पृथग्जनः
।
तद्दविष्टतरमात्मवस्तु
यत्
स्वस्तिदोऽस्तु
मम
तत्तनुश्शिवः
॥ ४ ॥
5
▾
Meaning
Keep
प्राप्यते
न
तरसा
तव
तत्वं
प्राप्यते
तु
तपसान्तरनेधाः
।
वीतिहोत्र
इव
वृत्तिनिवृत्या
शान्तिमेति
तपसैव
हि
चित्तम्
॥ ५ ॥
6
▾
Meaning
Keep
चित्तमेव
हि
भवो
निजचित्तं
शोधयेद्विविदिषुश्शिवतत्वम्
।
भावयेत्
सरसमंघ्रिसरोजं
काशिकेश
तव
चित्तसरोजे
॥ ६ ॥
7
▾
Meaning
Keep
हेयादेयाद्दूरतो
निर्विशेषं
निस्सामान्यं
चास्ति
यत्तत्वमीडे
।
निर्वाणं
तन्निर्वपुर्निर्विकल्पं
विश्वाधारं
विश्वनाथाभिधानम्
॥ ७ ॥
8
▾
Meaning
Keep
शुद्धं
बुद्धं
नित्यमुक्तस्वभावं
सत्यं
सूक्ष्मं
संविदानन्दसिन्धुः
।
प्रत्यग्वस्तुप्रीयतां
प्रेममूर्त्तिः
सौम्याकारं
सौम्यकाशीश्वराख्यम्
॥ ८ ॥
9
▾
Meaning
Keep
तव
हे
शिवमन्दिरं
शरीरं
शिवदस्त्वञ्च
सदाशिवोऽन्तरात्मा
।
अहमस्मि
शिवोऽद्वयः
परात्मे-
त्यनुचिन्तापचितिस्तवेश्वरस्य
॥ ९ ॥
10
▾
Meaning
Keep
कृतधीः
कृतसंन्यसनो
न
वसे-
न्निजनीवृतिनिर्जितवृत्तिरयम्
।
शिवतावकनिष्कलरूपमलं
विदधीत
हृदि
प्रविविक्तपदे
॥ १० ॥
11
▾
Meaning
Keep
नवामठं
भीमवनं
न
वाश्रयेत्
कृतीकृतस्वात्मविनिश्चयस्सताम्
।
कटाक्षपातेन
विपर्ययोज्झितः
कटाक्षपात्रं
तव
सौम्यराट्
प्रभो
॥ ११ ॥
12
▾
Meaning
Keep
शिवविशयवतस्तवाद्वितीये
ह्यनुपहितात्मनिशुद्धबुद्धमुक्ते
।
सुखमनतिशयं
कदापि
मोक्ष-
प्रभवमहो
न
भवेत्
प्रमूढबुद्धेः
॥ १२ ॥
13
▾
Meaning
Keep
कर्मत्यागः
प्रेषजपो
वा
न
यतित्वं
भिक्षाशित्वञ्चापि
यतित्वं
न
कथञ्चित्
।
शश्वन्निष्ठा
संयमनोत्थैव
यतित्वं
विश्वेशत्वद्धाम्नि
विभो
भूम्नि
महिम्नि
॥ १३ ॥
14
▾
Meaning
Keep
अविद्यया
शिव
तव
मोहिता
जना
विचक्षणा
अपि
निगमेषु
नैगमम्
।
पराङ्मुखाः
खलु
न
विदन्ति
पूरुषं
स्वचातुरीमुदरंभराय
बिभ्रति
॥ १४ ॥
15
▾
Meaning
Keep
मृदुपलमणिकाष्ठेष्वीशबुद्धिं
वितन्वन्
भयकरभवयन्त्रे
भ्राम्यति
भ्रान्तचित्तः
।
भवभवदभवन्तं
वीक्ष्य
मोक्षाय
साक्षात्
प्रभवति
रवितुल्यं
हन्त
भान्तं
हृदन्ते
॥ १५ ॥
16
▾
Meaning
Keep
धवलगिरिजाबन्धो
सिन्धोदुरन्त
कृपांबु
न-
स्त्वमणु
न
परिच्छिन्नः
छिन्नोपि
कालदिगादिभिः
।
बहिरपि
भवानन्तः
पूर्णो
यथांभसिकुंभिका
बहिरपि
सदाह्यन्तः
शून्यो
यथांबरकुंभिका
॥ १६ ॥
17
▾
Meaning
Keep
न
दर्शनमदर्शनं
न
दृगदृक्
च
दृश्योद्गमो-
प्यदृश्यमपि
यत्र
हि
स्वपनजाग्रदस्तं
गमः
।
निरस्तकलनश्च
यत्
पदमहोदृषत्
सन्निभं
त्वियं
हि
सहजास्थितिः
शिवं
तवोत्तमाराधनम्
॥ १७ ॥
18
▾
Meaning
Keep
शिवोऽस्मि
विमलोस्म्यहं
विशकलोस्मि
बुद्धोऽस्म्यहं
सदस्मि
सकलोऽस्म्यहं
सुखचिदस्मि
शुद्धोऽस्म्यहं
।
इति
स्फुटमनुक्षणं
च
यदि
वृत्तिरात्मोन्मुखी
त्वियं
हि
सहजस्थितिः
शिव
तवोत्तमाराधनम्
॥ १७ ॥
19
▾
Meaning
Keep
अकार्यकरणोऽस्म्यहं
ह्यपगुणोऽस्मि
पूर्णोऽस्म्यहं
अजन्मनिधनोस्म्यहं
निरुपमोऽस्मि
नित्योऽस्म्यहम्
।
इति
त्रिपथगांबुव-
यदि
वहेत्
सजातीयधी-
रियं
हि
सहजस्थितिः
शिव
तवोत्तमाराधनम्
॥ १९ ॥
20
▾
Meaning
Keep
ब्रह्मास्मीति
निजान्तरात्मधिषणा
नैष्कर्म्यसत्कुंभकात्
सम्यग्ब्रह्ममयं
समस्तमिदमि-
त्युद्दामदृष्ट्या
तथा
।
सौम्याधीशविभो
भवत्पदमुद-
स्ताध्यस्तभेदं
बुधाः
संपश्यन्ति
सदा
सुरोधकलया
नासाग्रदृष्ट्या
च
किम्
॥ २० ॥
21
▾
Meaning
Keep
भाववृत्तिमथशून्यवृत्तिमति-
भक्तियोगबलपुष्कला
सन्निरस्य
परिपूर्णवृत्तिमथ
पालयेद्बुधमतल्लिका
।
ब्रह्मवृत्तिमिह
तावकीं
परम
पावनीं
न
परिशीलये-
द्यस्य
पूरुष
पशुर्विपश्चिदपि
नोत्तरेद्भवसरित्
पतिम्
॥ २१ ॥
22
▾
Meaning
Keep
त्वन्मयंशिवविराट्
च
सूत्रमथ
विष्णुजिष्णुमुखदेवताः
त्वन्मयंशिव
खवायुवायुसख-
वारिभूप्रभृति
वैकृतम्
।
त्वन्मयं
शिव
यदस्तिभूतमथ
भावि
सर्वमपि
सौम्यराट्
त्वन्मयं
यदि
समस्तवस्त्वथ
च
चिन्मयं
तदथमन्मयम्
॥ २२ ॥
23
▾
Meaning
Keep
ब्रह्मैवाहं
न
जीवो
जनिमृतिरहितः
सच्चिदानन्दसान्द्रः
शत्रुर्मित्रं
कलत्रं
खगमृगभुजगाः
सर्वमात्मैव
साक्षात्
।
बुद्धिर्बुद्धीन्द्रियादि
क्वचिदपि
न
मयि
श्लिष्टमश्लिष्टगात्रो
निश्चित्यैवं
विपश्चिच्छिव
तव
विहर-
त्यात्मभूतो
महात्मा
॥ २३ ॥
24
▾
Meaning
Keep
देशः
कालोनिमित्तं
कथमपि
न
जग-
ज्जन्मभंगादिकार्ये-
ष्वेवं
सृष्टेरभावे
क्व
भवति
भव
भो-
भोक्तृभोज्यभोगप्रसंगः
।
वन्धो
मोक्षश्च
कस्यास्त्यखिलकृदखिलं
चेन्द्रजालोद्भवं
त्व-
न्मायाकैवल्यमूलं
श्रुतिरपि
जगदु-
ज्जृंभणे
वंभणीति
॥ २४ ॥
25
▾
Meaning
Keep
कर्ता
भोक्ता
च
भोगस्सुखमसुखमथ
स्वर्गतिर्दुर्गतिश्च
पुण्यापुण्यञ्च
सर्वं
विलसितमसतो
भाति
तृप्येन्मृगांभः
।
पीत्वा
पीत्वा
पिपासुर्यदि
जगदुदितं
संभवेत्
सत्यमेतत्
सौम्याधीशत्रिसत्यं
तव
वपुरमलं
त्वेकमेतन्नतोऽस्मि
॥ २५ ॥
Previous
←
Stabaka 16
Next
Stabaka 18
→