Bhashya
क्रियार्थैश्चाविशेषाद्विद्यार्थानाम् ।यथा च, दर्शपूर्णमासा-दिक्रिया इदंफला विशिष्टेतिकर्तव्यताका एवंकमप्रयुक्ताङ्गाच—इत्येतदलौकिकं वस्तु प्रत्यक्षायविषयं तथाभूतं च वेद-वाक्यैरेव ज्ञाप्यते; तथा, परमात्मेश्वरदेवतादिवस्तु अस्थूला-दिधर्मकमशनायाद्यतीतं चेत्येवमादिविशिष्टमिति वेदवाक्यैरेवज्ञाप्यते—इति अलौकिकत्वात्तथाभूतमेव भवितुमर्हतीति ।न च क्रियार्थैर्वाक्यैर्ज्ञानवाक्यानां बुद्धयुत्पादकत्वे विशेषो-ऽस्ति ।न चानिश्चिता विपर्यस्ता वा परमात्मादिवस्तुविषयाबुद्धिरुत्पद्यते ।अनुष्ठेयाभावादयुक्तमिति चेत् , क्रियार्थैर्वा-क्यैः त्र्यंशा भावनानुष्ठेया ज्ञाप्यतेऽलौकिक्यपि; न तथापरमात्मेश्वरादिविज्ञानेऽनुष्ठेयं किंचिदस्ति ; अतः क्रियार्थैःसाधर्म्यमित्ययुक्तमिति चेत् , न ; ज्ञानस्य तथाभूतार्थविषय-त्वात् ।न ह्यनुष्ठेयस्य त्र्यंशस्य भावनाख्यस्यानुष्ठेयत्वात्तथा-त्वम्; किं तर्हि ? प्रमाणसमधिगतत्वात् ।न च तद्विषयायाबुद्धेरनुष्ठेयविषयत्वात्तथार्थत्वम्; किं तर्हि ? वेदवाक्यजनित-त्वादेव ।वेदवाक्याधिगतस्य वस्तुनस्तथात्वे सति, अनुष्ठेय-त्वविशिष्टं चेत् अनुतिष्ठति ; नो चेदनुष्ठेयत्वविशिष्टम् , नानु-तिष्ठति ।अननुष्ठेयत्वे वाक्यप्रमाणत्वानुपपत्तिरिति चेत् ,न ह्यनुष्ठेयेऽसति पदानां संहतिरूपपद्यते ; अनुष्ठेयत्वे तुसति तादर्थ्येन पदानि संहन्यन्ते ; तत्रानुष्ठेयनिष्ठं वाक्यंप्रमाणं भवति—इदमनेनैवं कर्तव्यमिति ; न त्विदमनेनैव-मित्येवंप्रकाराणां पदशतानामपि वाक्यत्वमस्ति,—'कुर्या-त्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्' इत्येवमादीना-मन्यतमेऽसति ; अतः परमात्मेश्वरादीनामवाक्यप्रमाणत्वम् ;पदार्थत्वे च प्रमाणान्तरविषयत्वम् ; अतोऽसदेतदिति चेत् ,न ; 'अस्ति मेरुर्वर्णचतुष्टयोपेतः' इति एवमाद्यननुष्ठेयेऽपिवाक्यदर्शनात् ।न च, 'मेरुर्वर्णचतुष्टयोपेतः' इत्येवमादि-वाक्यश्रवणे मेर्वादावनुष्ठेयत्वबुद्धिरुत्पद्यते ।तथा अस्ति-पदसहितानां परमात्मेश्वरादिप्रतिपादकवाक्यपदानां विशेष-णविशेष्यभावेन संहतिः केन वार्यते ।मेर्वादिज्ञानवत्परमा-त्मज्ञाने प्रयोजनाभावाद्युक्तमिति चेत् , न ; 'ब्रह्मविदाप्नो-ति परम्' 'भिद्यते हृदयग्रन्थिः' इति फलश्रवणात् , सं-सारबीजाविद्यादिदोषनिवृत्तिदर्शनाच्च ।अनन्यशेषत्वाच्च त-ज्ज्ञानस्य, जुह्वमिव, फलश्रुतेरर्थवादत्वानुपपत्तिः ॥
In plain words
Just as sacrifices like the new and full moon rites are known to us solely through scripture as supramundane realities beyond ordinary perception, so too the reality of the Supreme Self is revealed exclusively by scriptural statements.
Close to the Sanskrit
Just as sacrificial acts like the new and full moon rites have immediate results and precise methodologies, and are revealed exclusively through scriptural sentences as supramundane realities beyond perception, so too the reality of the Supreme Self and deities is revealed. There is no fundamental difference in validity between action sentences and knowledge sentences.