The works of Ādi Śaṅkarācārya

Bṛhadāraṇyakopaniṣadbhāṣyam

Bhashya

Bhashya

इतश्च संसारविषय एव प्रजापतित्वम्, यतः सः प्रजापतिः वै नैव रेमे रतिं नान्वभवत्, — अरत्याविष्टोऽभूदित्यर्थः — अस्मदादिवदेव यतः; इदानीमपि तस्मादेकाकित्वादिधर्मवत्त्वात् एकाकी न रमते रतिं नानुभवति ।रतिर्नामेष्टार्थसंयोगजा क्रीडा ।तत्प्रसङ्गिन इष्टवियोगान्मनस्याकुलीभावोऽरतिरित्युच्यते ।सः तस्या अरतेरपनोदाय द्वितीयमरत्यपघातसमर्थं स्त्रीवस्तु ऐच्छत् गृद्धिमकरोत् ।तस्य चैवं स्त्रीविषयं गृध्यतः स्त्रिया परिष्वक्तस्येवात्मनो भावो बभूव ।सः तेन सत्येप्सुत्वात् एतावान् एतत्परिमाण आस बभूव ह ।किंपरिमाण इत्याह—यथा लोके स्त्रीपुमांसावरत्यपनोदाय संपरिष्वक्तौ यत्परिमाणौ स्याताम, तथा तत्परिमाणः, बभू-वेत्यर्थः ।स तथा तत्परिमाणमेवेममात्मानं द्वेधा द्विप्रकारम्अपातयत् पातितवान् ।इममेवेत्यवधारणं मूलकारणाद्विराजोविशेषणार्थम् ।न क्षीरस्य सर्वोपमर्देन दधिभावापत्तिवद्वि-राट् सर्वोपमर्देनैतावानास ; किं तर्हि ? आत्मना व्यव-स्थितस्यैव विराजः सत्यसंकल्पत्वादात्मव्यतिरिक्तं स्त्रीपुंसप-रिष्वक्तपरिमाणं शरीरान्तरं बभूव ।स एव च विराट्तथाभूतः---‘ स हैतावानास ’ इति सामानाधिकरण्यात् ।ततः तस्मात्पातनात् पतिश्च पत्नी चाभवताम् इति दंपत्योर्नि-र्वचनं लौकिकयोः ; अत एव तस्मात्—यस्मादात्मन एवार्धःपृथग्भूतः--येयं स्त्री—तस्मात्—इदं शरीरमात्मनोऽर्धबृ-गलम्—अर्धं च तत् बृगलं विदलं च तदर्धबृगलम् , अर्ध-विदलमिवेत्यर्थः ।प्राक्स्त्र्युद्वहनात्कस्यार्धबृगलमित्युच्यते—स्व आत्मन इति ।एवमाह स्म उक्तवान्किल, याज्ञवल्क्यः—यज्ञस्य वल्को वक्ता यज्ञवल्कस्तस्यापत्यं याज्ञवल्क्यो दैव-रातिरित्यर्थः ; ब्रह्मणो वा अपत्यम् ।यस्मादयं पुरुषार्ध आकाशःस्त्र्यर्धशून्यः, पुनरुद्वहनात्तस्मात्पूर्यते स्त्र्यर्धेन, पुनः संपुटीक-रणेनेव विदलार्धः ।तां स प्रजापतिर्मन्वाख्यः शतरूपाख्या-मात्मनो दुहितरं पत्नीत्वेन कल्पितां समभवत् मैथुनमुपगत-वान् ।ततः तस्मात्तदुपगमनात् मनुष्या अजायन्त उत्पन्नाः ॥

In plain words

The state of being Prajapati belongs entirely to worldly existence because he did not find joy anywhere, consumed by loneliness just like ordinary mortals today. Being alone, he felt no happiness. Seeking to dispel this restlessness, he desired a second entity, a woman. When she embraced him, he assumed the dimensions of an ordinary human couple. Just as milk does not turn into curd by destroying its essence, Viraj remained established in himself while manifesting a separate body matching the size of an embraced couple. Thus husband and wife were formed. As Yājñavalkya explained, the body is like half a split seed until completed by a wife. Prajapati united with his daughter Śatarūpā, and from them human beings were born.

Close to the Sanskrit

Hence worldly existence belongs to Prajapati because that Prajapati did not delight at all, experiencing no joy—he was filled with discontent, just like us now, because of possessing loneliness and similar traits, a solitary person does not delight, does not experience joy. Delight is sport born of contact with desired things... That Prajapati united with her, his daughter named Śatarūpā, and from that union humans were born.