The works of Ādi Śaṅkarācārya

Bṛhadāraṇyakopaniṣadbhāṣyam

Bhashya

Bhashya

न, अर्थान्तराभावात् ।न च 'आत्मेत्येवोपासीत' इत्यपूर्वविधिः ; कस्मात्? आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेणार्थान्तरस्य कर्तव्यस्य मानसस्य बाह्यस्य वाभावात् ।तत्र हि विधेः साफल्यम्, यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते—यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्येवमादौ ।न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासानुष्ठानम् ।तच्चाधिकाराद्यपेक्षानुभावि ।न तु 'नेति नेति' इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापारः संभवति ; सर्वव्यापारोपशमहेतुत्वात्तद्वा-मिति चेत्, न; अर्थप्राप्तत्वात्— यदैवात्मप्रतिपादकवा-क्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते, तदैव तदुत्पद्यमानंतद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते; आत्मविषयमि-ध्याज्ञाननिवृत्तौ च तत्प्रभवाः स्मृतयो न भवन्ति स्वाभा-विक्योऽनात्मवस्तुभेदविषयाः ; अनर्थत्वावगतेश्च— आत्मा-वगतौ हि सत्याम् अन्यद्वस्तु अनर्थत्वेनावगम्यते, अनित्यदुः-खाशुद्धयादिबहुदोषवत्त्वात् आत्मवस्तुनश्च तद्विलक्षणत्वात्;तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरभावप्राप्तिः; पारिशे-ष्यादात्मैकत्वविज्ञानस्मृतिसंततेरर्थत एव भावान्न विधेयत्वम् ।शोकमोहभयायासादिदुःखदोषनिवर्तकत्वाच्च तत्स्मृतेः—विप-रीतज्ञानप्रभवो हि शोकमोहादिदोषः; तथा च ‘तत्र कोमोहः’ ‘विद्वान्न बिभेति कुतश्चन’ ‘अभयं वै जनकप्राप्तोऽसि’ ‘भिद्यते हृदयग्रन्थिः’ इत्यादिश्रुतयः ।नि-रोधस्तर्ह्यर्थान्तरमिति चेत्— अथापि स्याच्चित्तवृत्तिनिरो-धस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात्, तन्त्रान्तरेषु चकर्तव्यतया अवगतत्वाद्विधेयत्वमिति चेत्—— न, मोक्ष-साधनत्वेनानवगमात् ।न हि वेदान्तेषु ब्रह्मात्मविज्ञाना-दन्यत्परमपुरुषार्थसाधनत्वेनावगम्यते—— आत्मानमेवावेत्त-स्मात्तत्सर्वमभवत्’ ‘ब्रह्मविदाप्नोति परम्’ ‘स यो हवै तत्परमं ब्रह्म वेद ब्रह्मैव भवति ' ' आचार्यवान्पुरुषो वेद '' तस्य तावदेव चिरम् ' ' अभयं हि वै ब्रह्म भवति ।एवं वेद ' इत्येवमादिश्रुतिशतेभ्यः ।अनन्यसाधनत्वाच्च निरो-धस्य— न ह्यात्मविज्ञानतत्स्मृतिसंतानव्यतिरेकेण चित्तवृ-त्तिनिरोधस्य साधनमस्ति ।अभ्युपगम्येदमुक्तम् ; न तु ब्रह्म-विज्ञानव्यतिरेकेण अन्यन् मोक्षसाधनमवगम्यते ।आकाङ्क्षा-भावाच्च भावनाभावः ।यदुक्तम् ' यजेत ' इत्यादौ किम् ?केन ? कथम् ? इति भावनाकाङ्क्षायां फलसाधनेतिकर्त-व्यताभिः आकाङ्क्षापनयनं यथा, तद्वदिहाप्यात्मविज्ञानवि-धावप्युपपद्यत इति— तदसत् ; ' एकमेवाद्वितीयम् ' ' तत्त्व-मसि ' ' नेति नेति ' ' अनन्तरमबाह्यम् ' ' अयमात्मा ब्रह्म 'इत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङ्क्षाविनिवृत्तेः ।च वाक्यार्थविज्ञाने विधिप्रयुक्तः प्रवर्तते ।विध्यन्तरप्रयुक्तौचानवस्थादोषमवोचाम ।न च ' एकमेवाद्वितीयं ब्रह्म 'इत्यादिवाक्येषु विधिरवगम्यते, आत्मस्वरूपान्वाख्यानेनैवा-वसितत्वात् ।वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमितिचेत्— अथापि स्यात् , यथा ' सोऽरोदीद्यदरोदीत्तद्रुद्रस्यरुद्रत्वम् ' इत्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामा-ण्यम् , एवमात्मार्थवाक्यानामपीति चेत्— न, विशेषात् ।भिप्रेतः, द्वितीयाश्रवणात् 'आत्मानमेव' इति; इह तु नद्वितीया श्रूयते, इति-परश्च आत्मशब्दः--'आत्मेत्येवोपासी-त' इति; अतो न आत्मोपास्यः, आत्मगुणश्चान्यः-- इतित्ववगम्यते ।न, वाक्यशेषे आत्मन उपास्यत्वेनावग-मात्; अस्यैव वाक्यस्य शेषे आत्मैवोपास्यत्वेनावगम्यते--'तदेतत्पदनीयमस्य सर्वस्य, यदयमात्मा', 'अन्तरतरं यदय-मात्मा', 'आत्मानमेवावेत्' इति ।प्रविष्टस्य दर्शनप्रति-षेधादनुपास्यत्वमिति चेत्-- यस्यात्मनः प्रवेश उक्तः,तस्यैव दर्शनं वार्यते--'तं न पश्यन्ति' इति प्रकृतोपादा-नात्; तस्मादात्मनोऽनुपास्यत्वमेवेति चेत्--न, अकृत्स्नत्वदो-षात् ।दर्शनप्रतिषेधोऽकृत्स्नत्वदोषाभिप्रायेण, न आत्मोपास्य-त्वप्रतिषेधाय; प्राणनादिक्रियाविशिष्टत्वेन विशेषणात्; आ-त्मनश्चेदुपास्यत्वमनभिप्रेतम्, प्राणनाद्येकैकक्रियाविशिष्टस्या-त्मनोऽकृत्स्नत्ववचनमनर्थकं स्यात्--'अकृत्स्नो ह्येषोऽत एकै-केन भवति' इति ।अतः अनेकैकविशिष्टत्वात्मा कृ-त्स्नत्वादुपास्य एवेति सिद्धम् ।यस्त्वात्मशब्दस्य इति-परःप्रयोगः, आत्मशब्दप्रत्यययोः आत्मतत्त्वस्य परमार्थतोऽविष-यत्वज्ञापनार्थम्; अन्यथा 'आत्मानमुपासीत' इत्येवमवक्ष्य-त्; तथा च अर्थात् आत्मनि शब्दप्रत्ययावनुज्ञातौ स्याताम्;

In plain words

No, because there is no other action left to perform. The statement 'one should meditate on it as the Self' is not a new command to act. Why? Because once the scriptures have revealed the true nature of the Self and negated everything that is not the Self, there remains no other duty—either mental or physical—to be done. A command is only meaningful when it prompts a person to act beyond merely understanding the words, as when one is told to perform a sacrifice to reach heaven. Knowing the words of a ritual is not the same as performing it. But once you realize 'I am Brahman,' all seeking and all actions naturally cease.

Close to the Sanskrit

No, because of the absence of any other object. Nor is 'one should meditate on it as the Self' an unprecedented injunction; why? Because apart from the knowledge generated by the sentences expounding the nature of the Self and negating the non-Self, there is no other duty, mental or external, to be performed. For an injunction is fruitful only where human activity is observed to occur apart from the mere knowledge generated by hearing the injunctive sentence—as in 'desiring heaven, one should perform the Darsha-Purnamasa sacrifices.' Indeed, the mere knowledge generated by the injunctive sentence of Darsha-Purnamasa is not the actual performance of those sacrifices...