The works of Ādi Śaṅkarācārya

Bṛhadāraṇyakopaniṣadbhāṣyam

Bhashya

Bhashya

यथा ह वैलोके, बहवो गोऽश्वादयः पशवः मनुष्यं स्वामिनमात्मनः अ-धिष्ठातारं भुञ्ज्युः पालयेयुः, एवं बहुपशुस्थानीयः एकैकःअविद्वान्पुरुषः देवान्- देवानिति पित्राद्युपलक्षणार्थम्- भु-इत्यादिना संबन्धप्रयोजने अभिहिते; अविद्यायाश्च संसा-राधिकाराकारणत्वमुक्तम्- 'अथ योऽन्यां देवतामुपास्ते'इत्यादिना; तत्र अविद्वान् ऋणी पशुवद्देवादि कर्मकर्तव्यतयापरतन्त्र इत्युक्तम् ।किं पुनर्देवादि कर्मकर्तव्यत्वे निमित्तम् ?वर्णा आश्रमाश्च ; तत्र के वर्णा इत्यत इदमारभ्यते- यन्नि-मित्तसंबद्धेषु कर्मसु अयं परतन्त्र एवाधिकृतः संसरति ।एतस्यैवार्थस्य प्रदर्शनाय अग्निसर्गानन्तरमिन्द्रादिसर्गो नोक्तः ;अग्नेस्तु सर्गः प्रजापतेः सृष्टिपरिपूरणाय प्रदर्शितः ; अयंच इन्द्रादिसर्गः तत्रैव द्रष्टव्यः, तच्छेषत्वात् ; इह तु सएवाभिधीयते अविदुषः कर्माधिकारहेतुप्रदर्शनाय ॥

In plain words

Just as in ordinary life many cattle like cows and horses look to their human owner and master for protection, so every unlearned person stands like a beast dependent upon the gods and bound by ritual duties.

Close to the Sanskrit

Just as indeed in the world, many cattle like cows and horses protect and guard a human master and controller of themselves, so each ignorant person standing in the place of many beasts... [explanation of divine duties and social classes follows].