Bhashya
हि इतरत्सर्वं कार्यकारणजातमिति मनः प्रधानत्वात् आत्मैव आत्मा— यथा जायादीनां कुटुम्बपतिरात्मैव तदनुकारित्वाज्जायादिचतुष्टयस्य, एवमिहापि मन आत्मा परिकल्प्यते कृत्स्नतायै ।तथा वाग्जाया मनोऽनुवृत्तित्वसामा- न्याद्वाचः ।वागिति शब्दश्चोदनादिलक्षणो मनसा श्रोत्रद्वारेण गृह्यते अवधार्यते प्रयुज्यते चेति मनसो जायेव वाक् ।ताभ्यां च वाङ्मनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राणः कर्मार्थमिति प्राणः प्रजेव ।तत्र प्राणचेष्टादिलक्षणं कर्म चक्षुर्दृष्टिवित्तसाध्यं भवतीति चक्षुर्मानुषं वित्तम् ; तत् द्विविधं वित्तम्— मानुषम् इतरच्च ; अतो विशिनष्टि इतरवित्त- निवृत्त्यर्थं मानुषमिति ; गवादि हि मनुष्यसंबन्धिवित्तं चक्षुर्ग्राह्यं कर्मसाधनम् ; तस्मात्तत्स्थानीयम् , तेन संबन्धा- त चक्षुर्मानुषं वित्तम् ; चक्षुषा हि यस्मात् तन्मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थः ।किं पुनरितर- द्वित्तम् ? श्रोत्रं दैवम्— देवविषयत्वाद्विज्ञानस्य विज्ञानं दैवं वित्तम् ; तदिह श्रोत्रमेव संपत्तिविषयम् ; कस्मात् ? श्रोत्रेण हि यस्मात् तत् दैवं वित्तं विज्ञानं शृणोति ; अतः श्रोत्राधीनत्वाद्विज्ञानस्य श्रोत्रमेव तदिति ।किं पुनरे- तैरात्मादिवित्तान्तैरिह निर्वर्त्यं कर्मेत्युच्यते— आत्मैव—आ-त्मेति शरीरमुच्यते ; कथं पुनरात्मा कर्मस्थानीयः? अस्यकर्महेतुत्वात् ।कथं कर्महेतुत्वम्? आत्मना हि शरीरेणयतः कर्म करोति ।तस्य अकृत्स्नत्वाभिमानिन एवं कृ-त्स्नता संपन्ना—यथा बाह्या जायादिलक्षणा एवम् ।त-स्मात्स एष पाङ्क्तः पञ्चभिर्निर्वृत्तः पाङ्क्तः यज्ञः दर्शनमा-त्रनिर्वृत्तः अकर्मिणोऽपि ।कथं पुनरस्य पञ्चत्वसंपत्तिमा-त्रेण यज्ञत्वम्? उच्यते—यस्मात् बाह्योऽपि यज्ञः पशुपुरु-षसाध्यः, स च पशुः पुरुषश्च पाङ्क्तः एव, यथोक्तमनभा-दिपञ्चत्वयोगात्; तदाह— पाङ्क्तः पशुः गवादिः, पाङ्क्तःपुरुषः—पशुत्वेऽपि अधिकृतत्वेनास्य विशेषः पुरुषस्येति पृथ-क्पुरुषग्रहणम् ।किं बहुना पाङ्क्तमिदं सर्वं कर्मसाधनं फलंच, यदिदं किंच यत्किंचिदिदं सर्वम् ।एवं पाङ्क्तं यज्ञमा-त्मानं यः संपादयति सः तदिदं सर्वं जगत् आत्मत्वेनआप्नोति— य एवं वेद ॥
In plain words
Since the mind is the principal factor among all other cause-and-effect aggregates, the mind itself functions as the self—just as the householder is the true self of his family of four because they follow him. Thus, here too the mind is projected as the self in order to achieve completeness. Speech is the wife, because speech naturally follows the mind... Whoever thus realizes the self as this fivefold sacrifice attains the entire universe as his very own Self—he who possesses this direct knowledge.
Close to the Sanskrit
For all other cause-and-effect aggregates, because the mind is predominant, the Self indeed is the Self—just as the master of the household is the Self of the tetrad of wives and others due to imitating that, so here too the mind is conceived as the self for the sake of completeness. Likewise speech is the wife, due to the commonality of speech following the mind... Whoever thus accomplishes the self as a fivefold sacrifice obtains all this universe as the Self—he who thus knows.