The works of Ādi Śaṅkarācārya

Chāndogyopaniṣadbhāṣyam

Bhashya

Bhashya

तान् यथोक्तवैश्वानरदर्शनवतो ह उवाच- एते यूयम्, वै खल्वित्यनर्थकौ, यूयं पृथगिव अपृथक्सन्तममुमेकं वैश्वानरमात्मानं विद्वांसः अन्नमत्थ, परिच्छिन्नात्मबुद्ध्येत्येतत्-हस्तिदर्शन इव जात्यन्धाः ।यस्त्वेतमेवं यथोक्तावयवैः द्युमूर्धादिभिः पृथिवीपादान्तैर्विशिष्टमेकं प्रादेशमात्रं प्रादेशैः द्युमूर्धादिभिः पृथिवीपादान्तैः अध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम् ।मुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः ।द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः ।प्रकर्षेण शास्त्रेण आदिश्यन्त इति प्रादेशा द्युलोकादय एव तावत्परिमाणः प्रादेशमात्रः ।शाखान्तरे तु मूर्धादिश्चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति ।इह तु न तथा अभिप्रेतः, 'तस्य ह वा एतस्या-त्मनः' इत्याद्युपसंहारात् ।प्रत्यगात्मतया अभिविमीयतेऽहमिति ज्ञायत इत्यभिविमानः तमेतमात्मानं वैश्वानरम्-विश्वान्नरान्नयति पुण्यपापानुरूपां गतिं सर्वात्मैष ईश्वरो वैश्वानरः, विश्वो नर एव वा सर्वात्मत्वात्, विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरः तमेवमुपास्ते यः, सोऽन्नमन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु, तेषु हि आत्मकल्पनाव्यपदेशः, प्राणिनामन्नमत्ति, वैश्वानरवित्सर्वात्मा सन् अन्नमत्ति ।न यथा अज्ञः पिण्डमात्राभिमानः सन् इत्यर्थः ॥

In plain words

To those sages who held the previously stated limited views of Vaiśvānara, he said: 'You eat your food knowing this undivided, single Self as if He were separate—just like blind men from birth touching an elephant.' [The commentary elaborates on the universal nature of the true knower's experience].

Close to the Sanskrit

To them possessing the vision of Vaiśvānara as stated, he spoke: 'These you are, indeed and certainly meaningless, you eat food knowing that undivided single Vaiśvānara Self separately, like blind men from birth at an elephant perception...' [Explanation continues to the end of the prose passage].